________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः ।
शरीरजेः कर्मदोषैर्याति स्थावरतां नरः । वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥ इत्यादिस्मृतेरपि वृचादिषु भोक्तृभोगायतनत्वमित्यर्थः
वाह ।
॥ १२२ ॥
ननु वृक्षादिष्वप्येवं चेतनत्वेन धर्माधर्मोत्पत्तिप्रसङ्गस्त
२१७
न देहमात्रतः कर्माधिकारित्वं वैशिष्टयश्रुतेः
॥ १२३ ॥
न देहमात्रेण धर्माधर्मोत्पत्तियोग्यत्व' जीवस्य । कुतः । वैशिष्ट्य श्रुतेः । ब्राह्मणादिदेहविशिष्टत्वेनैवाधिकारश्रवणादित्यर्थः ॥ १२३ ॥
देहभेदेनैव कर्माधिकारं दर्शयन् देहवं विध्यमाह । त्रिधा त्रयाणां व्यवस्था कर्मदेहोपभोगदे होभयदेहाः ॥ १२४ ॥
त्रयाणामुत्तमाधममध्यमानां सर्वप्राणिनां त्रिप्रकारो देह विभागः । कर्मदेहभोग देहोभयदेहा इतीत्यर्थः । तत्र कर्मदेहः परमर्षीणां भोगदेह इन्द्रादीनामुभयदेहश्च राजर्षीणामिति । अत्र प्राधान्येन विधा विभागः । अन्यथा सर्वस्यैष भांगदेहत्वापत्तेः ः ॥ १२४ ॥
चतुर्थमपि शरीरमाह ।
न किञ्चिदप्यनुशयिनः ॥ १२५ ॥ विद्यादनुशयं द्वेष्यं पश्चात्तापानुतापयोः ।
इतिवाक्यादनुशयो वैराग्यम् । विरक्तानां शरीरमेतत्रयविलक्षणमित्यर्थः । यथा दत्तात्रेयजडभरतादीनामिति ॥ १२५ ॥
१८
For Private And Personal Use Only