________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः।
२०३
न निर्भागत्वं कार्यत्वात् ॥८८॥ अतिसिद्ध कार्य त्वान्यथानुपपत्त्या पृथिव्याधणूनां न निरवयवत्वमित्यर्थः। अत एव तन्मात्राख्यसूक्ष्मद्रव्याण्य व पार्थिवाद्यणनामवयवा इति पातञ्जलभाथे व्यासदेवैः प्रतिपादितम्। पृथिवीपरमाणुजल परमाणुरित्यादिव्यवहारस्तु पृथिव्यादौनामपकर्षकाष्ठाभिप्रायेणैव । अतः प्रकृतिपर्यन्तमणुवेऽपि न क्षतिरिति । यद्यपि तन्मात्रे ष्वपि गन्धाद्यस्ति तथापि तस्याप्रत्यक्षतया न पृथिवीत्वादिनियामकत्वम् । व्यङ्गयगन्धादेरेव पृथिवौत्वादिसिडेः। अतो न तन्मात्राणि पृथिव्यादयः । तेषु च सूक्ष्मभूतव्यवहारो भूतसाक्षात्कारणत्वादिनवेत्यपि बोध्यम् ॥८८॥
प्रतिपुरुषसाक्षात्कारो न सम्भवति रूपस्य द्रव्यसाक्षात्कारहेतुत्वादिति नास्तिकाक्षेपं निराकरोति।
न रूपनिबन्धनात् प्रत्यक्षनियमः ॥॥ रूपादेव निमित्तात् प्रत्यक्षतेति नियमो नास्ति । धर्मादिनापि साक्षात्कारसम्भवादित्यर्थः। व्यञ्जकानियमस्याननादौ दृष्टव नादोषत्वात् । अतो वहिद्रव्यलौकिकप्रत्यक्षं प्रत्ये वोङ्गतरूपं व्यञ्चकमिति भावः ॥ ८ ॥
नन्वेवं किमणु परिमाणं वस्त्वस्ति न वेत्याकाङ्कायां परिमाणनिर्णयं करोति। न परिमाणचातुर्विध्यं हाभ्यां तद्योगात् ॥१०॥ __ घणु महद्दीषं इस्वमिति परिमाण चातुर्विध्यं नास्ति। दैविध्यं तु वर्तत एव । हाभ्यां तद्योगात् । हाभ्यामवाणुमहत्परिमाणाभ्यां चातुर्विध्यसम्भवादित्यर्थः। महत्परिमाणस्याअन्तरभेदावेव हि इखदौधौं। अन्यथा वक्रादिरूपैः परि
For Private And Personal Use Only