________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम् ।
शब्दादिबुद्धयाापलभ्यमेकं
प्राधानिकं ब्रह्म पुमांस्तदासीत् ॥ इति ॥ ५ ॥
षोड़शादिष्वप्येवम् ॥८६॥ न्यायपाशुपतादिमतेषु षोडशादिष्वपि न नियमो न वा सम्मानज्ञानान्मुक्तिः। उक्तरूपेण पदार्थाधिक्यादित्यर्थः । अस्ममते तु नित्य पदार्थ हयमेव। नित्यानित्यसाधारणास्तु पदार्थाः पञ्चविंशतिरेवेति नियमः। पञ्चविंशतिद्रव्येष्वेव गुणकर्मसामान्यशक्त्यादीनामन्तर्भाव इति ॥८६॥
पञ्चभूतानां पूर्वोक्त कार्यत्वोपपत्त्वर्थ वैशेषिकाद्यभ्य पगतं पार्थिवाद्यणुनित्यत्वमपाकरोति।
नाणुनित्यता तत् कार्यत्वश्रुतेः ॥ ८७॥ पृथिव्याद्यण नां नित्यता नास्ति तेषामणनामपि कार्यत्वश्रुतेरित्यर्थः । यद्यप्यस्माभिः सा अतिनं दृश्यते काललुप्तत्वा. दिना तथाप्याचायवाक्यान्मनुस्मरणाच्चानुमेया। यथा मनुः ।
अख्यो मात्रा विनाशिन्यो दशार्धानां च याः स्मृताः । ताभिः साईमिदं सर्वं सम्भवत्यनुपूर्वशः।
इति। दशार्धानां पृथिव्यादिपञ्चभूतानाम्। न चान वाक्येऽणुशब्देन हाणुकाद्य व ग्राह्यमिति वाच्यम्। सोचे प्रमाणाभावादिति। पत्राणुशब्दो भूतपरमाणुपर एव । वैशेषिकाद्यभिमतं च तस्य नित्यत्वमनेन सूत्रेण निराक्रियते । न त्वणुपरिमाणद्रव्यसामान्य स्य नित्यत्वं रजोगुणस्य चाञ्चल्या. नुरोधेनामुत्वसिद्धेः। मध्यमपरिमाणत्वे नित्यत्वस्य विभुत्व च क्रियाया अनुपपत्ते रिति । ८७ ॥
ननु निरवयवस्य परमाणोः कथं कार्यत्व घटते तबाह ।
For Private And Personal Use Only