________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः।
१८३
हक्षादिः प्ररूढ़ायवस्थाभिः सवप्यश्राद्यवस्थाभिरसन् भवति तथैव प्रकत्यादिकं सदसदात्मकमिति । तदुक्तम् ।
अव्यक्तं कारणं यत् तबित्य सदसदात्मकम् । प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिन्तकाः ॥ इति। एतच्चास्माभिब्रह्ममौमांसाभाथे योगवार्तिके च अपञ्चितमिति दिक् ॥ ५६ ॥
अयं विचारः पर्याप्त इदानीं शब्दविचार: प्रसङ्गागत भागन्तुकतयान्ते प्रस्तूयते । प्रतीत्यप्रतीतियां न स्फोटात्मकः शब्दः ॥५॥
प्रत्येकवणेभ्योऽतिरिक्त बलश इत्यादिरूपमखण्ड मेकपदं स्फोट इति योगैरभ्युपगम्यते कम्बुप्रीवाद्यवयवेभ्योऽनिरितो, घटाद्यवयवौव स च शब्दविशेषः पदाख्योऽर्थ स्फटीकरणात् स्फोट इत्युच्यते स शब्दोऽप्रामाणिकः । कुतः प्रतीत्यप्रतीतिभ्याम्। स शब्दः किं प्रतीयते न वा। बाये येन वर्णसमुदायेनानुपूर्वीविशेषविशिष्टेन सोऽभिव्यज्यते तस्यैवार्थप्रत्यायकत्वमस्तु किमन्तर्गहना तेन। अन्त्ये त्वज्ञातस्फोटस्य नास्त्यर्थप्रत्यायनशक्तिरिति व्यर्था स्थोटकल्पनेत्यर्थः ॥ ५७ ॥
पूर्व वेदानां नित्यत्वं प्रतिसिहमिदानी वर्णनित्यत्वमपि प्रतिषेधति।
न शब्दनित्यत्वं कार्यताप्रतीतेः ॥ ५८॥ स एवायं गकार इत्यादिप्रत्यभिज्ञाबलाहर्णनित्यत्वं न युक्तम् । उत्पनो गकार इत्यादिप्रत्ययेनानित्यत्वसिद्धरित्यर्थः । प्रत्यभिज्ञा च तज्जातीयताविषयिणी। अन्यथा घटादेरपि प्रत्यभिजया नित्यतापत्तेरिति ॥ ५८॥
शकते।
For Private And Personal Use Only