________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१८२
सांख्यदर्शनम् ।
तात् । अन्यत्त्रान्यरूपस्य नुम्हङ्गतुल्यत्वमन्यथा शब्द ेनोच्यतेऽन्यथा च तस्य भानमुच्यत इति स्ववच एव व्याहतम् । असतो भानासम्भव स्यान्यथाख्यातिवादिभिरपि वचनादित्यर्थः । पुरोवर्त्तिन्यसत्त्वेऽन्यत्र तत्सत्ताया भानाप्रयोजकत्व - मिति भावः । न च सर्ववासतो भाने सामग्री न सम्भवति सन्निकर्षाद्यभावादित्यतः क्वचित् सत्तामात्रमपेक्ष्यत इति | अनादिवासनाधाराया एव भ्रम हेतुत्वसम्भवादिति
वाच्यम्
॥ ५५ ॥
नात्यन्तबाध इति पूर्वोक्तं विहखानः स्वसिद्धान्तमुपसंहरति ।
सदसत्ख्यातिर्बाधाबाधात् ॥ ५६ ॥
सदसत्ख्यातिरेव सर्वेषां गुणादीनां कुतो बाधाबाधात् तत्र स्वरूपेणाबाधः सर्ववस्तूनां नित्यत्वात् संसर्गतस्तु बाधः सर्ववस्तूनां चैतन्येऽस्ति यथा पटादिषु लौहित्यादेस्तद्वत् । तथावस्थाभिरपि बाधोऽखिलपरिणामिनां कालादिष्वित्यर्थः । बाधश्व प्रतिपन्नधर्मिणि निषेधबुद्धिविषयत्वम् । असव त्वभावः सोऽप्यधिकरणस्वरूप इति । न च सदसत्त्वयोर्विरोध इति वाच्यम् । प्रकारभेदेनाविरोधात् । यथाहि लौहित्यं विम्बरूपेण सत्स्फटिकगतप्रतिविम्वरूपेण चासदिति दृष्टम् । यथा वा रजतं बणिग्वोथौ स्थरूपेण मच्छुक्तयध्यस्तरूपेण चासत् तथैव सर्वं जगत् स्वरूपतः सत् चैतन्यादावध्यस्तरूपेण चामदिति । तदुक्तम् ।
विद्यमानेऽपि संसृतिर्न निवर्त्तते ।
ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥
इति । एवमेवावस्थाभेदेनापि सदसत्त्वमविरुद्दम् । यथाहि
For Private And Personal Use Only