________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१.२
सांख्यदर्शनम् ।
दृष्टसाधनजन्यायां दुःख निवृत्तावल्यन्त पुरुषार्थत्वमेव नास्ति । यथाकथञ्चित् पुरुषार्थत्वं त्वस्त्येव । कुतः । प्रात्यहिकस्य तदुदुःखस्य निराकरणवदेव तेन धनादिना दुःखनिराकरणस्य चेष्टनादन्वेषणादित्यर्थः । अतो धनाद्यर्जन प्रवृत्तिरुपपद्यत इति भावः । कुञ्जरशौचादिकमप्यापातदुःखनिवर्त्तकतया मन्दपुरुषार्थो भवत्येवेति ॥ ३ ॥
स च दृष्टसाधनजो मन्दपुरुषार्थो विज्ञैर्हेय इत्याह । सर्बासम्भवात् सम्भवेऽपि सत्त्वासम्भवाङ्गेयः प्रमाणकुशलैः ॥ ४ ॥
स च दृष्टसाधनजो दुःखप्रतीकारो दुःखादुःखविवेकशास्वाभिज्ञैर्हेयो दुःखपचे निक्षेपणीयः । कुतः । सर्वासम्भवात् । सर्वदुःखेषु दृष्टसाधनैः प्रतीकारासम्भवात् । यत्त्रापि सम्भवस्तवापि प्रतिग्रहपापात्यदुःखावश्यकत्वमाह । सम्भवेऽपीति । सम्भवेऽपि दृष्टोपायनान्तरीयकादिदुःख सम्पर्कावश्यम्भावादित्यर्थः । तथा च योगसूत्रम् । परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाञ्च सर्वमेव दुःखं विवेकिन इति ॥ ४ ॥
ननु दृष्टसाधनजन्ये सर्वस्मिन्नेव दुःखप्रतीकारे दुःखसम्भेदनियमोऽप्रयोजकः । तथा च मय्यते ।
यन्न दुःखेन सम्भिन्नः न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत् सुखं खःपदास्पदम् ॥
इति । तत्राह उत्कर्षादपि मोक्षस्य सर्वोत्कर्षन्तेः ॥ ५ ॥
दृष्टसाधना साध्यस्य मोक्षस्य दृष्टसाध्यराज्यादिभ्य उत्कर्षात् तेषु दुःखसत्तावधार्य्यते । अपिशब्दात् त्रिगुणात्मकत्वा
For Private And Personal Use Only