________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः।
देरपि । मोक्षस्योत्कर्षे प्रमाणं सर्वोत्कर्षश्रुतेरिति। न ह वै सशरीरस्य सत: प्रियाप्रिययोरपहतिरस्ति। बशरीरं वा वसन्तं प्रियाप्रिये न स्मृशत इत्यादिना विदेहकैवल्यस्योत्कर्षश्रुतेरित्यर्थः ॥ ५ ॥
ननु मा भवतु दृष्टसाधनादत्यन्तदुःखनिवृत्तिः। यदृष्टसाधनात् तु वैदिककर्मणः स्यात् । अपाम सोमममृता अभूमेत्यादिश्रुतरिति तबाह।
अविशेषश्चोभयोः ॥६॥ उभयोरेव दृष्टादृष्टयोरत्यन्तदुःखनिवृत्त्यसाधकत्वे यथोततहेतुत्वे चाविशेष एव मन्तव्य इत्यर्थः । एतदेव कारिकायामुक्तम् । दृष्टवदानुअविक: स ह्यविशुद्धिक्षयातिशययुक्तः।
इति । गुरोरनुयत इत्यनुश्रवो वेदः । तहिहितयागादिरानुविकः। स दृष्टोपायवदेवाशुद्धया हिंसादिपापन विनाशिसातिशयफलकत्वेन च युक्त इत्यर्थः । ननु वैधहिंसायाः पापजनकले बलवनिष्टाननुबन्धौष्टसाधनत्वरूपस्य विध्यर्थस्थानुपपत्तिरिति चेन्न । वैधहिंसाजन्यानिष्टस्येष्टोत्पत्तिनान्तरोयकत्वेनेष्टोत्पत्तिनान्तरोयकदुःखाधिकदुःखाजनकत्वरूपस्त्र बलवदनिष्टाननुबन्धित्वस्य विध्यंशस्याक्षतेः। यत् तु वैधहिंमातिरिक्तहिंसाया एव पापजनकत्वमिति तदसत् सङ्कोचे प्रमाणाभावात् । युधिष्ठिरादौनां स्वधर्मेऽपि युद्धादी जातिबधादिप्रत्यवायपरिहाराय प्रायश्चित्तश्रवणाच्च ।
तस्माद्यास्याम्यहं तात ! दृष्ट्वे मं दुःखसन्निधिम् । बयोधर्ममधर्माब्य किम्याकफलसन्निभम् ॥ इति मार्कण्डेयवचनाच्च । अहिंसन् सर्वभूतान्वन्यत्र
For Private And Personal Use Only