________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पचमोऽध्यायः ।
१८
ननु तथाप्यतीन्द्रिय देवताफलादिषु कथं शक्तिग्रहो वैदि
कपदानां स्वात् तत्राह ।
योग्यायोग्येषु प्रतौतिजनकत्वात् तत्सिद्धिः
# ४४॥
प्रत्यचाप्रत्यचेषु पदार्थेषु सामान्यधर्मपुरस्कारेण तत्सिद्धि: शक्तिग्रहो भवति साधारण्येन पदानां प्रतीतिजनक त्वस्यानुभवसिद्धत्वात् । विशेषस्त्वतीन्द्रियोऽपूर्व एव वाक्यार्थो न च तस्य ग्रहणं प्रागपेक्ष्येत इत्यर्थः ॥ ४४ ॥
स्पष्टम् ॥ ४८ ॥
शब्दप्रामाण्यप्रसङ्गेनैव शब्दगतं विशेषमवधारयति । न नित्यत्वं वेदानां कार्य्यत्वश्रुतेः ॥ ४५ ॥ स तपोऽतप्यत तस्मात् तपस्तेपानात त्रयो वेदा अजायन्तेत्यादिश्रुतेर्वेदानां न नित्यत्वमित्यर्थः । वेदनित्यतावाक्यानि च सजातीयानुपूर्वीप्रवाहानुच्छेदपराणि ॥ ४५ ॥
किं पौरुषेया वेदा नेत्याह ।
न पौरुषेयत्वं तत्कर्त्तुः पुरुषस्याभावात् ॥४६॥
ईश्वरप्रतिषेधादिति शेषः । सुगमम् ॥ ४६ ॥
अपरः कर्त्ता भवत्वित्याकाङ्गायामाह ।
न मुक्तामुक्तयोर योग्यत्वात् ॥ ४७ ॥ जीवन्मुक्तधुरौणो विष्णुर्विशुद्धसत्त्वतया निरतिशय सर्व जोऽपि वीतरागत्वात् सहस्रशाखवेदनिर्माणायोग्यः । श्रमुक्तस्त्वसर्वज्ञत्वादेवायोग्य इत्यर्थः ॥ ४७ ॥
नन्वेवमपौरुषेयत्वानित्यत्वमेवागतं तवाह ।
नापौरुषेयत्वान्नित्यत्वमङ्कुरादिवत् ॥४८॥
For Private And Personal Use Only