________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८.
सांख्यदर्शनम् ।
नन्वङ्कुरादिष्वपि कार्यत्वेन घटादिवत् पौरुषेयत्वमनुमेयं तवाह। तेषामपि तद्योगे दृष्टबाधादिप्रसक्तिः ॥४६॥
यत पौरुषेयं तच्छरौरजन्यमिति व्याप्तिर्लोके दृष्टा तस्याबाधादिरेवं मति स्यादित्यर्थः ॥ ४ ॥ नन्वादिपुरुषोच्चरितत्वाइदा अपि पौरुषेया एवेत्याह ।
यस्मिन्नदृष्टेऽपि कतबुद्धिरुपजायते तत्पौरुषयम् ॥ ५० ॥ ___ दृष्ट इवादृष्टेऽपि यस्मिन् वस्तुनि कृतबुद्धिबुद्धिपूर्वकत्वबुद्धिः र्जायते तदेव पौरुषेयमिति व्यवहियत इत्यर्थः । एतदुक्त भवति न पुरुषोत्चरिततामात्रेण पौरुषेयत्व पूवासप्रश्वासयोः सुषुप्तिकालौनयोः पौरुषेयत्व व्यवहाराभावात् । किन्तु बुद्धिपूर्वकत्वेन वेदास्तु नि:वासवदेवादृष्टवशादबुद्धिपूर्वका एव स्वयम्भुवः सकाशात् स्वयं भवन्ति । अतो न ते पौरुषेयाः । तथा च श्रुतिः । तस्य तस्य महतो भूतस्य निःश्वसितमेतद्य. दृग्वेद इत्यादिरिति॥ ५० ॥ ___ नन्वेवं यथार्थवाक्यार्थज्ञानपूर्वकत्वाच्छकवाक्यस्येव वेदानामपि प्रामाण्य न स्यात् तबाह ।
निजशक्त्यभिव्यक्ती : खतः प्रामाण्यम् ॥५१॥ वेदानां निजा स्वाभाविको या यथार्थ ज्ञानजननशक्तिस्तस्या मन्त्रायुर्वेदादावभिव्यक्त रुपलम्भादखिलवेदानामेव स्वत एव प्रामाण्य सिध्यति म वक्त यथार्थज्ञानमूलकत्वादिनेत्यर्थः । तथा च न्यायसूत्रम्। मन्त्रायुर्वेदप्रामाण्यवञ्च तत्प्रामाण्यमिति। गुणादौनाञ्च नात्यन्तबाध इति प्रतिज्ञायां न्यायेन सुखादिसिद्धेरित्य को हेतुरुपन्य स्त: प्रपश्चितश्च ॥ ५॥
For Private And Personal Use Only