________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः ।
{૭
इदानीं पञ्चावयवरूपशब्दस्य ज्ञानजनकत्वोपपत्तये शब्दभक्त्यादिनिर्वचनेन तदनुपपत्तिरूपं शब्दप्रामाख परेषां बाधकमपास्यते ।
शक्तिग्राहकाण्याह ।
वाच्यवाचकसम्बन्धः शब्दार्थयोः ॥३७॥
अर्थ वाच्यताख्या शक्तिः शब्दे वाचकताख्या शक्तिरस्ति सैव तयोः सम्बन्धोऽनुयोगितावत् । तजज्ञानाच्छब्देनार्थापस्थितिरित्यर्थः ॥ ३७ ॥
त्रिभिः सम्बन्धसिद्धिः ॥ ३८ ॥
व्याप्तोपदेशो वृद्धव्यवहारः प्रसिद्द पदसामानाधिकरण्यम् । इत्य तैस्त्रिभिरुक्तसम्बन्धो ग्टह्यत इत्यर्थः ॥ ३८ ॥
न का नियम उभयथा दर्शनात् ॥ ३८ ॥
..
स च शक्तिग्रहः कार्य एव भवतीति नियमो नास्ति लोके काव्यदकाय्यऽपि वृद्धव्यवहारादिदर्शनादित्यर्थः । यथाहि गामानयेत्यादिकार्य परवाक्याद्द्स्य गवानयनादिव्यवहारो दृश्यते । एवमेव पुत्रस्ते जात इत्यादिसिद्धपरवाक्यादपि पुलकादिव्यवहारी दृश्यत इति । सिद्धार्थशब्दप्रामाख्यसिद्धौ च विवेके वेदान्तप्रामाख्य सिद्धमित्याशयः ॥ ३८ ॥
1
ननु भवतु लोके सिद्धे शक्तिग्रहोऽर्थप्रत्ययादिदर्शनात् । वेदे तु कथं भविष्यत्यकार्य बोधनवैयर्थ्यादिति तत्राह । लोके व्युत्पन्नस्य वेदार्थप्रतीतिः ॥ ४० ॥
लोके शब्द यक्तिव्युत्पन्नस्य पुरुषस्य तदनुसारेणैव वेदार्थप्रतीतिः । न हि लोके शक्तिभिन्ना वेदे च भिन्ना य एव लौकिकास्त एव वैदिका इति न्यायात् । अतो लोके सिद्धाथपरत्वसिद्धो वेदेऽपि तृत् सिध्यतीत्यर्थः ॥ ४० ॥
For Private And Personal Use Only