________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७३
सांख्यदर्शनम् ।
तमत्वेऽपि पङ्कदोषाद्दीनानुरूपता पङ्कजस्य न भवति तद्ददित्यर्थः । पङ्कस्थानौयं शिष्यचित्तम् ॥ ३१ ॥
ननु ब्रह्मलोकादिष्वं खयं चैव पुरुषार्थता सिधा किमर्थ - मेतावता प्रयासेन मोचाय ज्ञाननिष्पादनं तत्राह ।
न भूतियोगेऽपि कृतकृत्यतोपास्यसिद्दिवदुपास्यसिङ्घिवत् ॥ ३२ ॥
ऐश्वय्य योगोऽपि कृतकृत्यता कृतार्थता नास्ति चयातिशय दुःखैरनुगमात् । उपास्यसिद्दिवत् । यथोपास्यानां ब्रह्मादोनां सिद्धियोगेऽपि न कृतकृत्यता तेषामपि योगनिद्रादी यागाभ्यासश्रवणात् तथैव तदुपासनया प्राप्ततदैश्वय्यस्यापीत्यर्थः । उपास्यसिद्धिवदिति वौठा अध्याय समाप्तौ ॥ ३२ ॥ ध्यायत्रितयोक्तस्य विवेकस्यान्तरङ्गकम् ।
आख्यायिकाभिः सम्प्रोक्तमत्त्राध्याये समासतः ॥ इति विज्ञानभितुनिर्मिते कापिलसांख्यप्रवचनस्य भाष्य व्याख्यायिकाध्यायश्चतुर्थः ॥
पञ्चमोऽध्यायः ।
स्वशास्त्र सिद्धान्तः पर्याप्त इतः परं स्वशास्त्रे परेषां पूर्वपचानपाकत्तुं पञ्चमाध्याय आरभ्यते । तत्रादावादिसूत्रऽथशब्द ेन यन्मङ्गलं कृतं तद्दार्थमित्याक्षेपं समाधत्ते ।
मङ्गलाचरणं शिष्टाचारात् फलदर्शनात्
श्रुतिश्चेति ॥ १ ॥
For Private And Personal Use Only