________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थोऽध्यायः ।
__ १७५
अपितु। ___ दोषदर्शनादुभयोः ॥ २८॥ उभयोः प्रकृतितत्कार्ययोः परिणामित्वदुःखात्मकत्वादिदोषदर्शनादेव रागशान्तिर्भवति मुनिवदेवेत्यर्थः। सौभरहि सङ्गदोषदर्शनादेव सङ्गे वैराग्यं श्रयते ।
दुःखं यदेवैकशरीरजन्म तथाईसंख्यं तदिदं प्रसूतम् । परिग्रहेण क्षितिपात्मजानां सुतैरने कैबहुलौ कृतं तत् । इति ॥ २८॥ रागादिदोषोपहतस्योपदेशग्रहणेऽप्यनधिकारमाह । न मलिनचेतस्युपदेशवौजप्ररोहोऽजवत् ॥२६॥
उपदेशरूपं यज्ज्ञानवृक्षस्य वीजं तस्याङ्गुरोऽपि रागादिमलिनचित्त नोत्पद्यते। अजवत्। यथाजनाम्नि नृपे भार्याशोकमलिनचित्त वशिष्ठेनोक्त स्याप्युपदेशवीजस्य नाङ्गुर उत्पन्न इत्यर्थः ॥ २॥ किं बहुना।
नाभासमात्रमपि मलिनदर्पणवत् ॥ ३० ॥
आपातज्ञानमपि मलिनचेतस्य पदेशान जायते विषयान्तरसञ्चारादिभिः प्रतिबन्धात् । यथा मलैः प्रतिबन्धान्मलिनदर्पणेऽर्थो न प्रतिविम्बति तहदित्यर्थः ॥ ३० ॥
यदि वा कथञ्चिज्ज्ञानं जायेत तथाप्युपदेशानुरूपं न भवेदित्याह।
न तज्जस्यापि तद्रूपता पङ्कजवत् ॥ ३१ ॥ तस्मादुपदेशाज्जातस्यापि ज्ञानस्योपदेशानुरूपता न भवति सामग्रेपणानवबोधात् । पङ्कजवत्। यथा वौजस्यो
For Private And Personal Use Only