________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थोऽध्यायः । बत्। यथा पिङ्गलानाम वेश्या कान्तार्थिनी कालमलब्धा निर्विमा सती विहायाशां मुखिनो बभूव तहदित्यर्थः । तदु. तम ।
आशा हि परमं दुःखं नैराश्यं परमं सुखम् । यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला॥
इति। नन्वाशामिवृत्त्या दुःखनिवृत्ति: स्यात् सुखं तु कुतः साधनाभावादिति । उच्यते। चित्तस्य सत्त्वप्राधान्य न खाभाविकं यत् सुखमाशया पिहितं तिष्ठति तदेवाशाविगमे लब्धवृत्तिकं भवति तेजः प्रतिबद्धजलशैत्यवदिति न तत्र साधनापेक्षा। एतदेव चार्थे सुखमित्यु च्यत इति ॥ ११ ॥
योगप्रतिबन्धकत्वादारम्भोऽपि भोगार्थ न कर्तव्योऽत्यथैव तदुपपत्ते रित्याह।
अनारम्भऽपि परगृहे सुखो सर्पवत् ॥१२॥ सुखो भवेदिति शेषः। शेषं सुगमम् । तदुक्तम् । रहारम्भो हि दुःखाय न सुखाय कथञ्चन । सर्पः परकतं वेश्म प्रविश्य सुखमेधते ॥ १२ ॥
शास्त्र भ्यो गुरुभ्यश्च मार एव ग्राह्योऽन्यथाभ्यु पगमवादादिभिरंशतोऽसारभागेऽन्योऽन्यविरोधेनार्थबाहुल्यन चैकाप्रताया असम्भवादित्याह। .
बहुशास्त्रगुरूपासनेऽपि सारादानं षट्पदवत् ॥१३॥ कर्तव्यमिति शेषः । अन्यत् सुगमम् । तदुताम् । अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः । सर्वतः सारमादद्यात् पुष्य भ्य इव षट्पदः । इति। मार्कण्डेय पुराणे च।
For Private And Personal Use Only