________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८
सांख्यदर्शनम्।
असाधनानुचिन्तनं बन्धाय भरतवत् ॥८॥ विवेकस्य यदन्तरङ्गसाधनं न भवति स चेद्धोऽपि स्यात् तथापि तदनुचिन्तनं तदनुष्ठाने चित्तस्य तात्पर्य न कर्त्तव्यं यतस्तबन्धाय भवति विवेकविस्मारकतया भरतवत् । यथा भरतस्य राजर्षेर्धर्म्यमपि दीनानाथहरिण शावकस्य पोषणमित्यर्थः । तथा च जडभरतं प्रकृत्य विष्णुपुराणे ।
चपलं चपले तस्मिन् दूरगं दूरगामिनि । आसौचेतः समासतं तस्मिन् हरिणपोतके ॥ ८॥ बहुभिर्योंगे विरोधो रागादिभिः कुमारौशङ्खवत् ॥१॥
बहुभिः सङ्गो न कार्यः। बहुभिः सङ्गे हि रागाद्यभिव्यत्या कलही भवति योग शकः । यथा कुमारोहस्तशङ्खानामन्योऽन्य सङ्गेन झणकारो भवतीत्यर्थ: ॥ ८ ॥
दाग्यामपि तथैव ॥१०॥ हाभ्यां योगेऽपि तथैव विरोधी भवत्यत एकाकिनैव स्थातव्यमित्यर्थः । तदुक्तम् ।
वासे बहूनां कलहो भवेद्वार्ता इयोरपि । एक एव चरेत् तस्मात् कुमाा इव कङ्गणम् ॥ इति ॥ १०॥
पाशा वै वश्यविरसे चित्ते सन्तोषवर्जिते । म्नाने वक्त्रमिवादर्श न ज्ञानं प्रतिविम्बति ॥ इति वचनानिराशता योगिनानुष्ठेयेत्याह।
निराशः मुखौ पिङ्गलावत् ॥ ११ ॥ व्याशा त्यत्वा पुरुषः सन्तोषाख्यसुखवान् भूयात् पिङ्गला
For Private And Personal Use Only