________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१७०
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम् ।
सारभूतमुपासीत ज्ञानं यत् स्वार्थसाधकम् ।
ज्ञानानां बहुता यैषा योगविघ्नकरी हि सा ॥ इदं प्रयमिदं ज्ञेयमिति यस्तृषितश्चरेत् । असौ कल्पसहस्रेषु नैव ज्ञानमवाप्न ुयात् ॥ इति ॥ १३ ॥
"
साधनान्तरं यथा तथा भवत्वं काग्रतयैव समाधिपालनद्वारा विवेकसाक्षात्कारो निष्पादनीय इत्याह ।
इषुकारवन्नैकचित्तस्य समाधिहानिः ॥ १४॥
यथा शरनिर्माणायैकचित्तस्येषुकारस्य पार्श्वे रातो गमनेनापि न वृत्त्यन्तरनिरोधो हीयत एवमेकाग्रचित्तस्य सर्वथापि न समाधिहानिर्वृत्त्यन्तरनिरोधक्षतिर्भवति । ततञ्च विषयान्तरसञ्चाराभावे ध्येयसाक्षात्कारोऽप्यवश्यं भवतीत्य काग्रतां कुय्यादित्यर्थः । तदुक्तम् ।
तदेवमात्मन्यवरुद्धचित्तो न वेद किञ्चिद्दहिरन्तरं वा । यथैषुकारो नृपतिं व्रजन्तमिषौ गतात्मा न ददर्श पार्श्वे ॥ इति ॥ १४ ॥
सत्यां शक्तौ ज्ञानबलाच्छा स्वक्क्त नियमो वृथा लङ्घयते तदा ज्ञानानिष्पत्त्यानर्थक्यं योगिनो भवतीत्याह ।
कृतनियमलङ्घनादानर्थक्य लोकवत् ॥१५॥
यः शास्त्रेषु कृतो योगिनां नियमस्तस्योल्लङ्घने ज्ञाननिष्यत्त्यायोऽर्थो न भवति लोकवत् । यथा लोके भैषज्यादौ विहितपध्यादीनां लङ्घने तत्तत्सिडिर्न भवति तद्ददित्यर्थः । ज्ञानरक्षार्थं वा लङने तु न ज्ञानप्रतिबन्धः ।
अशक्तया
श्रपेतव्रतकर्मा तु केवलं ब्रह्मणि स्थितः । ब्रह्मभूतश्चरन् लोके ब्रह्मचारीति कथ्यते ।
For Private And Personal Use Only