________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
aaौयोऽध्यायः ।
बाधितानुवृत्त्या मध्यविवेकतोऽप्यपभोगः
॥७७॥
सकृत् सम्प्रज्ञातयोगेनात्मसाक्षात्कारोत्तरं मध्यविवेकावस्थो मध्यमविवेकेऽपि सति पुरुषे बाधितानामपि दुःखादीनां प्रारब्धवशात् प्रतिविम्ब रूपेण पुरुषेऽनुवृत्त्या भोगो भवतीत्यर्थः । विवेकनिष्पत्तिश्चापुनरुत्थानादसम्प्रज्ञातादेव भवतीत्यतस्तस्यां सत्यां न भोगोऽस्तीति प्रतिपादयितु मध्यविवेकत इत्युक्तम् । मन्दविवेकस्तु साक्षात्कारात् पूर्वं श्रवणमननध्यानयावरूप इति विभागः ॥ ७७ ॥
जीवन्मुक्तश्च ॥ ७८ ॥
जौवन्म क्तोऽपि मध्यविवेकावस्थ एव भवतीत्यर्थः ॥ ७८ ॥ जीवन्म के प्रमाणमाह ।
१६५
उपदेश्योपदेष्टृत्वात् तत्सिङ्घिः ॥ ७९ ॥
शास्त्रेष विवेकविषये गुरुशिष्य भावश्रवणाज्जीवन्मुक्तसिद्धिरित्यर्थः । जीवन्मुक्तस्यैवोपदेष्टृ त्वसम्भवादिति ॥ ७८ ॥
श्रुतिश्च ॥ ८० ॥
श्रुतिश्च जीवन्मतोऽस्ति ।
७
दोचयैव नरो मुच्येत् तिष्ठन्म कोऽपि विग्रहे । कुलालचक्रमध्यस्थो विच्छिन्नोऽपि भ्रमेटः ॥
ब्रह्मैव सन् ब्रह्माप्येतीत्यादिरिति । नारदौयस्मृतिरपि । पूर्वाभ्यासबलात् कार्य्यं न लोको न च वैदिकः । पुण्यपापः सर्वात्मा जीवन्मुक्तः स उच्यते ॥ इति ॥ ८० ॥
ननु श्रवणमात्रेणाप्युपदेष्टृत्वं स्यात् तत्राह ।
ू
For Private And Personal Use Only