________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम्।
इतरथान्धपरम्परा ॥८१॥ इतरथा मन्दविवेकस्याप्युपदेष्टुत्वेऽन्धपरम्परापत्तिरि. त्यर्थः । सामग्रेषणात्मतत्त्वमज्ञात्वा चेदुपदिशेत् कस्मिंश्चिदंश स्वभ्रमेण शिष्यमपि भ्रान्तीकुर्यात् सोऽप्यन्य सोऽप्य न्यमित्येवमन्धपरम्परेति ॥ ८१ ॥ ननु ज्ञानेन कर्मक्षये सति कथं जीवनं स्यात् तत्राह।
चक्रधमणवद्धृतशरीरः ॥८२ ॥ कुलालकर्मनिहत्तावपि पूर्वकर्मवेगात् स्वयमेव कियत्कालं चक्रं भ्रभति। एवं ज्ञानोत्तरं कर्मानुत्पत्तावपि प्रारब्धकर्म वेगेन चेष्टमानं शरीरं धृत्वा जीवन्मुक्तस्तिष्ठतीत्यर्थः ॥ ८२ ॥ ___ ननु ज्ञानहेतुसम्प्रज्ञातयोगेन भोगादिवासनाक्षये कथं शरीरधारणम्। न च योगस्य संस्काराभिभावकले किं मानमिति वाच्यम्। व्य स्थाननिरोधसंस्कारयोरभिभवप्रादुभर्भावी निरोधपरिणाम इति योगसूत्रतस्तत्सिद्धेः। चिरकालौनस्य विषयान्तरावेशस्य विषयान्तरसंस्काराभिभावकतया लोकेऽप्यनुभवाञ्चति तबाह ।
संस्कारलेशतस्तत्सिड्दिः ॥८३॥ शरीरधारणहेतवो ये विषयसंस्कारास्तेषामल्यावशेषात् तस्य शरीरधारणस्य सिद्धिरित्यर्थः। अत्र चाविद्यासंस्कारलेशस्य सत्ता नापेक्ष्यते । अविद्याया जन्मादिरूपकर्मविपाकारम्भमात्र हेतुत्वात्। योगभाष्ये व्यासैस्तथा व्याख्यातत्वात्। वीतरागजन्मादर्शनादिति न्यायाच्च। न तु प्रारच. फलककर्मभोगेऽपोति । यत्र च नियमेनाविद्यापेक्ष्यते स प्रयासविशेषरूपो भोगो मूढ़े व वास्ति जीवन्मुक्तानां तु भोगाभास एवेति मागुतम्। यत् तु कश्चिदविद्यासंस्कारले शोऽपि
For Private And Personal Use Only