________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम्। अव्यक्ताद्यविशेषान्त विकारेऽस्मिंश्च वर्णिते । चेतनाचेतनान्यत्वज्ञानेन ज्ञानमुच्यते । इति । यथा।
अस्थिस्थ णं सायुयुतं मांसशोणितलेपनम् । चर्मावनई दुर्गन्धिपूर्ण मूत्रपुरोषयोः । जराशोकसमाविष्टं रोगायतनमातुरम् । रजस्खलमसन्निष्ठं भूतावासमिमं त्यजेत् ॥ नदीकूलं यथा वृक्षो वृक्ष वा शकुनियथा । तथा त्यजत्रिमं देहं कच्छ्राद्ग्राहादिमुच्यते । इति। एतदेव कारिकयाप्युक्तम् । एवं तत्त्वाभ्यासान्नास्मिन् मे नाहमित्यपरिशेषम् । अविपर्य याविशुद्ध केवलमुत्पद्यत ज्ञानम् ॥
इति। नामोत्यात्मनः कर्तत्वनिषेधः । न मे इति सङ्गनिषेधः। नाहमिति तादात्मनिषेधः। केवलमित्यस्य विवरणमविपर्यायाहि शुद्धमिति। अतोऽन्तरा विपर्याण विप्ल तमित्यर्थः । इदमेव केवलव सिदिशब्द न सूत्र प्रोक्तम् । विव
ख्यातिरविप्ल वा हानोपाय इति योगसूत्रणेतादृशज्ञानस्यैव मोक्षहेतुत्वसिद्धिरिति ॥ ७५ ॥
विवेकसिद्धौ विशेषमाह।
अधिकारिप्रभेदान्न नियमः ॥ ७६ ॥
मन्दाधिकारिभेदसत्त्वादभ्यासे क्रियमाणेऽप्यस्मिन्न व जन्मनि विवेकनिष्पत्तिर्भवतीति नियमो नास्तीत्यर्थः। अत उतमाधिकारमभ्यासपाटवेनात्मनः सम्पादयेदिति भावः ७६॥
विवेक निष्पत्त्य व निस्तारो नान्यथेत्याह।
For Private And Personal Use Only