________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयोऽध्यायः ।
कोशकारकृतिर्यथा स्वनिर्मितेनावासेनात्मानं बध्नाति तद्दत् । सैव च प्रकृतिरेकरूपेण ज्ञानेनैवात्मानं दुःखान्मोचयतीत्यर्थः
॥ ७३ ॥
ननु बन्धमुक्ती व्यविवेकादिति यदुक्त तदयुक्तम् । अविवे कस्याहेयानुपादेयत्वात् । लोके दुःखस्य तदभावसुखादेरेव च खती हेयोपादेयत्वात् । श्रन्यथा दृष्टहानिरित्याशङ्क्य चतुर्थसूत्रोक्त स्वयं विवृणोति ।
निमित्तत्वमविवेकस्य न दृष्टहानिः ॥७४॥
अविवेकस्य पुरुषेषु बन्धमोक्षनिमित्तत्वमेव पुरोक्त न त्वविवेक एव ताविति नातो दृष्टहानिरित्यर्थः । एतच्च प्रथमाध्यायसूत्रेषु स्पष्टम् । अविवेकनिमित्तात् प्रकृतिपुरुषयोः संयोगस्तस्माच्च संयोगादुत्पद्यमानस्य प्राकृतदुःखस्य पुरुषे यः प्रतिविम्बः स एव दुःखभोगो दुःखसम्बन्धस्तनिवृत्तिरेव च मोक्षाख्यः पुरुषार्थ इति ॥ ७४ ॥
तदेवमादिसर्गमारभ्यात्यन्तिकलय पय्यैन्तोऽखिल परिणामः प्रधानतद्विकाराणामेव पुरुषस्तु कूटस्थपूर्ण चिन्मात्र एवेत्यध्यायद्वयेन विस्तरतो विवेचितं तस्य विवेकस्य निष्पत्य पायेषु सारभूतमभ्यासमाह ।
तत्त्वाभ्यासान्नेति नेतीति त्यागाद्दिवेक सिङ्घिः
J
॥ ७५ ॥
प्रकृतिपर्य्यन्तेषु जडेषु नेति नेतीत्यभिमानत्यागरूपात् तत्त्वाभ्यासाद्दिवे कनिप्पत्तिर्भवति । इतरत् सर्वमभ्यासस्याङ्गमात्रमित्यर्थः । तथा च श्रुतिः । अथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत् परमस्ति स एष आत्मा नेति नेतीव्यादिरिति ।
For Private And Personal Use Only