________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१६
सांख्यदर्शनम् ।
प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति । या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य |
इति ॥ ७० ॥
ननु पुरुषार्थं चेत प्रधानप्रवृत्तिस्तर्हि बन्धमोक्षाभ्यां पुरुषस्य परिणामापत्तिरिति तत्राह ।
नैकान्ततो बन्धमोक्षौ पुरुषस्याविवेकादृते
॥ ७१ ॥
दुःखयोगवियोगरूपों बन्धमोक्षौ पुरुषस्य नैकान्ततस्तस्वतः किन्तु चतुर्थ सूत्रवक्ष्यमाणप्रकारेणाविवेकादेवेत्यर्थः ॥७१॥ परमार्थतस्तु यथोक्तो बन्धमोक्षो प्रकृतेरेवेत्याह ।
प्रकृतेराञ्जस्यात् ससङ्गत्वात् पशुवत् ॥७२॥ प्रकृतेरेव ततो दुःखेन बन्धमोचौ मसङ्गत्वाददुःखमाधधर्मादिभिर्लिप्तत्वात् । यथा पशुरज्ज्वा लिप्ततया बन्धमोचभागौ तदित्यर्थः । एतदुक्तं कारिकया ।
तस्मात्र बध्यतेऽध्वा न मुच्यते नापि संसरति पुरुषः । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ इति । द्वयोरेकतरस्य वौदासीन्यमपवर्ग इति सूत्र े च पुरुषस्यापवर्ग उक्तः स प्रतिविम्ब रूपस्य मिथ्यादुःखस्य वियोग पवेति ॥ ७२ ॥
तत्र : साधनैर्बन्ध : कैर्वा मोक्ष इत्याकाङ्गायामाह । रूपैः सप्तभिरात्मानं बन्धाति प्रधानं कोशकारवहिमोचयत्ये करूपेण ॥ ७३ ॥
धर्मवैराग्यख धर्माज्ञानावैराग्यानेश्वर्यैः सप्तमौरूपधमैं दु:खहेतुभिः प्रकृतिरात्मानं दुःखेन बघ्नाति कोशकारवत् ।
For Private And Personal Use Only