________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८
हतीयोऽध्यायः । नरपेक्ष्येऽपि प्रकृत्युपकारोऽविवेको निमित्तम् ॥ ८॥
पुरुषाणां नैरपेक्ष्येऽप्ययं मे स्वाम्ययमेवाहमित्यविवेकादेव प्रकृतिः मृष्ट्यादिभिः पुरुषानुपकरोतीत्यर्थः। तथा च अस्सी पुरुषायात्मानमविविय दर्शयितु वासना वर्त्तते तं प्रत्ये व प्रधानं प्रवर्तत इत्येव नियामकमिति भावः ॥ ६८ ॥
प्रवृत्तिखभावत्वात् कथं विवेकेऽपि नित्तिरुपपद्यतां तनाह।
नर्तकौवत् प्रवृत्तस्यापि निवृत्तिश्चारिता. र्यात् ॥ ६६ ॥
पुरुषार्थमेव प्रधानस्य प्रवृत्तिस्वभावो न तु सामान्येन । अत: प्रत्तस्यापि प्रधानस्य पुरुषार्थसमाप्तिरूपचरितार्थत्वे मति निवृत्तियुक्ता। यथा परिषद्भ्यो नृत्यदर्शनार्थं प्रवृत्ताया नर्तक्यास्तत्सिद्धौ निरत्तिरित्यर्थः ॥ ६८ ॥ निवृत्ती हेत्वन्तरमाह।
दोषबोधेऽपि नोपसर्पणं प्रधानस्य कुलबधूवत् ॥ ७० ॥
पुरुषेण परिणामित्वदुःखात्मकत्वादिदोषदर्शनादपि लज्जितायाः प्रकृतः पुनर्न पुरुषं प्रत्य पसर्पणं कुलबधवत्। यथा स्वामिना मे दोषो दृष्ट इत्यवधारणेन लज्जिता कुलबधून स्वामिनमुपसर्पति तहदित्यर्थः । तदुक्तं नारदीये।
सविकारापि मौव्य न चिरं मुक्त्वा गुणात्मना । प्रकृति तदोषेयं लज्जयेव निवर्त्तते ॥ इति । एतदेवोक्त कारिकयापि।
For Private And Personal Use Only