________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१५८
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम् ।
इयोः प्रधानपुरुषयोरेवोदासीन्यमेकाकिता । परस्परवियोग इति यावत् । सोऽपवर्गः । व्यथवा पुरुषस्यैव कैवव्यमहं मुक्तः स्यामित्य ेव पुरुषार्थतादर्शनादित्यर्थः ॥ ६५ ॥
नन्वेकपुरुषसुक्तावेव विवेकाकारवृत्त्या विरक्ता प्रकृतिः कथमन्य पुरुषार्थं पुनः सृष्टौ प्रवर्त्तताम् । न च प्रकृतेरंगभेदानैष दोष इति वाच्यम् । मुक्तपुरुषोपकरणैरपि पृथिव्यादिभिरन्यस्य भोग्यसृष्टिदर्शनादिति तत्राह । अन्यसृष्ट्युपरागेऽपि न विरज्यते प्रबुद्धरज्जु
तत्त्वस्यैवोरगः ॥ ६६ ॥
एकस्मिन् पुरुषे विविक्तबोधादिरक्तमपि प्रधानं नान्यस्मिन् पुरुषे सृट्युपरागाय विरक्तं भवति किन्तु तं प्रति सृज त्येव । यथा प्रबुद्दरज्जुतत्त्वस्यैवोरगो भयादिकं न जनयति मूढ़ प्रति तु जनयत्य वेत्यर्थः । उरगतुल्यत्वं च प्रधानस्य रज्जुतुल्ये पुरुषे समारोपणादिति । एवंविधं रज्जुसर्पादिदृष्टान्तानामाशयभबुडेवाबुधाः केचिद्वेदान्तिब्रुवाः प्रकृतेरत्यन्ततुच्छत्वं मनोमात्रत्वं वा तुलयन्ति । एतेन प्रकृतिसत्यतावादिनांख्योक्तदृष्टान्तेन श्रुतिस्मृत्यर्था बोधनीया न केवलं दृष्टान्तवत्त्वनायमर्थः सिध्यति ॥ ६६ ॥
कर्मनिमित्तयोगाच्च ॥ ६७ ॥
सृष्टौ निमित्त ं यत् कर्म तस्य सम्बन्धादप्यन्य पुरुषार्थं सृजतौत्यर्थः ॥ ६७ ॥
ननु सर्वेषां पुरुषाणामप्रार्थकतया नैरपेक्ष्याविशेषेऽपि कञ्चित् प्रत्येव प्रधानं प्रवर्त्तते कञ्चित् प्रति निवर्त्तत इत्यत्र किं नियामकम् । न च कर्म नियामकं कस्य पुरुषस्य किं कर्मेत्यत्र नियामकाभावादिति तत्राह ।
For Private And Personal Use Only