SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वतीयोऽध्यायः । कर्माकृष्टेर्वानादितः ॥१२॥ वाशब्दोऽत्र समुच्चये। यत: कर्मानाद्यत: कर्मभिराकर्षणादपि प्रधानस्यावश्यको व्यवस्थिता च प्रवृत्तिरित्यर्थः ॥६२॥ तदेवं प्रधानस्य परार्थतः स्रष्टत्वे सिद्धे परप्रयोजनममाप्ती स्वत एव प्रधाननिवृत्त्या मोक्षः सिध्यतीत्याह प्रवट्टकेन । विविक्तबोधात् सृष्टिनिवृत्तिः प्रधानस्य सूदवत् पाके ॥ ६३॥ विविक्त पुरुषज्ञानात् परवैराग्येगा पुरुषार्थसमाप्ती प्रधानस्य सृष्टिनिवर्तते। यथा पाके निष्पन्न पाचकस्य व्यापारी निवर्तत इत्यर्थः। इयमेवात्यन्तिकप्रलय इत्य च्यते ! तथा च श्रुतिः। तस्याभिध्यानाद्योजनात् तत्त्वभावाद्भूयश्चान्त विश्वमायानिवृत्तिरिति ॥ ६३ ॥ नन्वे वमेक पुरुषस्योपाधौ विवेकज्ञानोत्पत्त्या प्रकृतेः सृष्टिनिवृत्ती सर्वमुक्तिप्रसङ्ग इति तनाह । इतर इतरवत् तदोषात् ॥ ६४ ॥ इतरस्तु विविक्तबोधरहित इतरवहदवदेव प्रकृत्या तिष्ठति । कुतस्तद्दोषात्। तस्य प्रधानस्यैव तत्पुरुषार्थासमापनाख्यदोषादित्यर्थः । तदुक्त योगसूत्रे । कतार्थ प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वादिति। तथा च पूर्वसूत्र या प्रधाननिवत्तिरुता सा विविक्तबोद्धपुरुष प्रत्वं वेति भावः । विश्वमायाश्रुतिरपि जानिनं प्रत्येव मन्तव्या। अजामिति श्रुत्वं कत्राक्यत्वादिति ॥ ६४ ॥ सृष्टिनिवृत्त : फलमाह। इयोरेकतरस्य वौदासीन्यमपवर्गः ॥६॥ १४ For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy