________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्श नम्।
इति वचनात्। तस्मात् कारगलयादपि न कतकत्यतास्ति मग्नवदुस्थानात् । यथा जले मग्नः पुरुषः पुनरुत्तिष्ठति एवमेव प्रकृतिलौनाः पुरुषाः ईश्वरभावन पुनराविर्भवन्ति । संस्कारादेरक्षयेण पुनरागाभिव्यक्त विवेकख्यातिं विना दोष. दाहानुपपत्तेरित्यर्थः ॥ ५४॥ __ननु कारणं केनापि न कार्य नेऽतः स्वतन्त्रा कथं स्वोपासकस्य दु.खनिदानमुस्थानं पुन: करोति तबाह ।
अकार्यत्वेऽपि तद्योगः पारवश्यात ॥५५॥ प्रकृतेरकाय वेऽप्यप्रेयलेऽप्यन्येच्छानधौनत्वेऽपि तद्योगः पुनरुत्थानौचित्य तल्लीनस्य कुतः पारवश्यात् पुरुषार्थतन्त्रत्वात्। विवेकख्यातिरूप पुरुषार्थवशेन प्रकृत्या पुनरुत्थाप्यते स्खलीन इत्यर्थः । पुरुषार्थादयश्च प्रकृतेन प्रेरका: किन्तु प्ररत्तिस्वभावायाः प्रत्ती निमित्तानोति न स्वातन्त्राक्षतिः । तथा च योगसूत्रम्। निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकदिति । वरणभेदः प्रतिबन्धनित्तिः ॥५५॥ प्रकृतिलयात् पुरुषस्योत्थान प्रमाणामप्याह।
स हि सर्ववित् सर्वकर्ता ॥ ५६ ॥ स हि पूर्वसर्ग कारण लौनः सर्गान्तरे सर्ववित् सर्वकर्तेश्वर यादिपुरुषो भवति प्रकृतिलये तस्यैव प्रकतिपदप्राप्यौचित्यात्। तदेव सक्तःसह कर्मणेति लिङ्ग मनो यत्र निषितमस्येत्यादिश्रुतेरित्यर्थः ॥ ५६॥ नन्वेयमौतरप्रतिषेधानुपपत्तिस्तवाह।
ईदृशेश्वरसिद्धिः सिद्धा ॥ ५॥ प्रकृतिलौनस्य जन्ये खरस्य सिद्धिर्य: सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तप इत्यादिश्रुतिभ्यः सर्वसम्मतैय। नित्ये श्वरस्यैव
For Private And Personal Use Only