________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तीयोऽध्यायः।
१५३ मध्ये रजोविशाला ॥ ५० ॥ मध्ये भूर्लोक इत्यर्थः ॥ ५० ॥
नन् कस्या एव प्रकृतेः केन निमित्त न सत्त्वादिविशालतया विचित्राः सृष्टय इत्याकाझायामाह।। कर्मवैचिचयात् प्रधानचेष्टा गर्भदासवत् ॥५१॥
विचित्रकर्मनिमित्तादेव यथोक्ता प्रधानस्य चेष्टा कार्य वैचिवारूपा भवति। वैचित्रो दृष्टान्तो गर्भदासवदिति। यथा गर्भावस्थामारभ्य यो दासस्तस्य भृत्यवासनापाटवेन नानाप्रकारा चेष्टा परिचा खाम्यर्थे भवति तददित्यर्थः
ननु चेदूई सत्त्व विशाला सृष्टिरस्ति तहि तत एव कृतार्थत्वात पुरुषस्य किं मोक्षेणेति तनाह।
आत्तिस्तत्राप्युत्तरोत्तरयोनियोगाड्वेयः ॥५२॥ ___ तत्राप्य गतावपि सत्यामावृत्तिरस्त्यत्र उत्तरोत्तरयोनियोगादधोऽधो योनिजन्मनः सोऽपि लोको हेय इत्यर्थः ॥ ५२ ॥
किञ्च।
समानं जरामरणादिजं दुःखम् ॥ ५३॥ ऊर्ध्वाधो गतानां ब्रह्मादिस्थावरान्तानां सर्वेषामेव जरा. मरणादिजं दुःखं साधारणमतोऽपि हेय इत्यर्थः ॥ ५३ ॥ किंबहुना कारणे लयादपि न कतकत्यतेत्याह ।
न कारणलयात् कृतकृत्यता मग्नवदुत्थानात ॥५४॥
विवेकन्नानाभावे यदा महदादिषु वैराग्य प्रकल्य पास. नया भवति तदा प्रकृती लयो भवति वैराग्यात् प्रकृतिलय
For Private And Personal Use Only