________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम् ।
१५२
तत्त्व' बुद्धिरिति । समष्टिसर्गः प्रत्ययसर्गय समाप्तः ॥ ४५ ॥ साम्प्रतं व्यक्तिभेदः कर्मविशेषादिति सङ्घ पादुक्ता व्यष्टिसृष्टिर्विस्तरतः प्रतिपाद्यते ।
दैवादिप्रभेदाः ॥ ४६ ॥
देवादि: प्रभेदोऽवान्तरभेदो यस्याः सा तथा सृष्टिरिति शेषः । तदेतत् कारिकया व्याख्यातम् ।
यष्टविकल्पो दैवतैर्यग्योनच पञ्चधा भवति । मानुष्य व कविधः समासतो भौतिकः सर्गः ॥ इति । ब्राह्मप्राजापत्यं न्द्रपैव गान्धर्वयाक्षराक्षस पैशाचा इत्यष्टविधो देवः सर्गः । पशुमृगपचिसरीसृपस्थावरा इति तैर्यग्योनः पञ्चविधः । मानुष्य सर्गखेकप्रकार इति । भौतिको भूतानां व्यष्टिप्राणिनां विराजः सकाशात् सर्ग इत्यर्थः ॥ ४६ ॥ अवान्तरसृष्ट रष्युक्तायाः पुरुषार्थत्वमाह ।
ब्रह्मस्तम्भपर्य्यन्तं तत्कृते सृष्टिराविवेकात्
॥४७॥
चतुर्मुखमारभ्य स्थावरान्ता व्यष्टिसृष्टिरपि विराटसृष्टिवंदेव पुरुषार्था भवति तत्तत्पुरुषाणां विवेकख्यातिपय्यन्त मित्यर्थः ॥ ४७ ॥
व्यष्टिष्टावपि विभागमाह सूत्रत्रयेण ।
ऊर्द्ध सत्त्वविशाला ॥ ४८ ॥
ऊ भूर्लोकादुपरि सृष्टिः सत्त्वाधिका भवतीत्यर्थः ॥ ४८ ॥
तमोविशाला मूलतः ॥ ४६ ॥
मूलतो भूर्लोकादध इत्यर्थः ॥ ४८ ॥
For Private And Personal Use Only