________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तीयोऽध्यायः । १४८ प्रक्रतिष्वनामबुद्धिरविद्या तमोऽष्टधा भवति। कार्य कारणाभेदेन केवलविक्रतिष्वात्मबुद्धेरप्यत्रान्तर्भावः। एक्मविद्याया विषयभेदेनाष्टविधत्वात् तत्समानविषयकस्यास्मिताख्यमोह. स्थाष्टविधत्वम् । दिव्यादिव्यभेदेन शब्दादीनां विषयाणां दशत्वात् तहिषयको रागाख्यो महामोहो दशविधः । अविद्यास्मितयोरष्टौ ये विषया ये रागस्य दश विषयास्तविघातकेष्वटादशस्वष्टादशधा तामिम्राख्यो देषः । एवं तेषामष्टादशानां विनाशादिदर्शनादष्टादशधान्धतामिस्राख्योऽभिनिवेशो भयमिति। एतेषां च तम आदिसज्ञा तहेतुत्वादिति ॥ ४१ ॥
एवमितरस्याः ॥ ४२ ॥ एवं पूर्ववदेवेतरस्या अशक्तरप्यवान्तरभेदा अष्टाविंशतिविशेषतोऽवगन्तव्या इत्यर्थः । अशक्तिरष्टाविंशतिधेत्येतस्मिन्नेव सूत्रेऽष्टाविंशतिधात्व मया व्याख्यातम् ॥ ४२ ॥
आध्यात्मिकादिभेदान्नवधा तुष्टिः ॥४३॥ इदं सूत्र कारिकया व्याख्यातम् । आध्यात्मिकाश्चतस्रः प्रात्य पादानकालभाग्याख्याः । वाह्या विषयोपरमात् पञ्च नव तुष्टयोऽभिहिताः॥
इति। अस्यायमर्थः। अात्मानं तुष्टिमतः सङ्घातमधिकत्य वर्तन्त इत्याध्यात्मिकास्तुष्टयश्चतस्रः । तत्र प्रकृत्याख्या तुष्टि
था। माक्षात्कारपर्यन्तः परिणाम: सर्वोऽपि प्रहातेरेव तं व प्रकृतिरेव करोत्यहं तु कूटस्थः पूर्ण इत्यात्मभावनात् परितोषः। इयं तुष्टिरम्भ इत्य चत। ततश्च प्रव्रज्योपादानेन या तुष्टिः सोपादानाख्या सलिलमित्य च्यते। ततश्च प्रव्रज्यायां बहकालं समाध्यनुष्ठानेन या तुष्टिः सा कालाख्या तुष्टिरोध इत्य च्यते। ततश्च प्रज्ञानपरमकाष्ठारूपे धर्ममेघसमाधी सति या
For Private And Personal Use Only