________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४८
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम् ।
एकादशेन्द्रियवधाः सह बुद्धिवधेरशक्तिरुद्दिष्टा । सप्तदश वधा बुद्धेर्विपर्य्ययात् तुष्टिसिद्धीनाम् ॥ इति । बाधियं कुष्ठितान्धत्वं जडताजित्रता तथा । मूकता कौण्यपङ्गत्व' क्लव्योदावर्त्तमुग्धताः ॥
इत्येकादशेन्द्रियाणामेकादशाशक्तयः स्वतश्च बुद्धेः सप्तदशाशक्तयः । यथा वक्ष्यमाणानां नवतुष्टीनां विधाता नव तथा वच्यमाणानामष्टसिद्दोनां च विघाता अष्टाविति मिलित्वा चेमाः स्वतः परतश्चाष्टाविंशतिर्बुद्धेरशक्तय इत्यर्थः । तुशब्द एषां विशेषप्रसिद्धिख्यापनार्थः ॥ ३८ ॥
J
ययोर्विधात बुद्धेरशक्ती ते तुष्टिसिद्धी सूत्रइयेनाह । तुष्टिर्नवधा ॥ ३८ ॥
स्वयमेव नवधात्वं वच्यति ॥ ३८ ॥
सिरिष्टधा ॥ ४० ॥
एतदपि स्वयं वच्यति ॥ ४० ॥
उक्तानां विपर्य्ययाशक्तितुष्टिसिद्धीनां विशेष जिज्ञासायां क्रमेण सूत्रचतुष्टयं प्रवर्त्तते ।
अवान्तरभेदाः पूर्ववत् ॥ ४१ ॥
विपर्ययस्थावान्तरभेदा ये सामान्यतः पञ्चोक्तास्ते पूर्वबत् पूर्वाचार्यैर्यथोक्तास्तथैव विशिष्यावधार्याः । विस्तरभया - नेहोच्यन्त इत्यर्थः । ते चाविद्यादयो मयापि सामान्यत एक व्याख्याताः पञ्चेति । विशेषतस्तु द्वाषष्टिभेदास्तदुक्तं कारि
कायाम् ।
भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः ।
तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिस्रः ॥
इति । अस्यायमर्थः । व्यष्टस्वव्यक्तमहदहङ्कारपचतन्मात्रेषु
For Private And Personal Use Only