________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तीयोऽध्यायः।
१४७ वैराग्यादभ्यासाच्च ॥ ३६ ॥ केवलाभ्यासात् ध्यान रूपादेव वैराग्यसहिताजज्ञानं तत्माधनयोगश्च भवत्यु त्तमाधिकारिणामित्यर्थः । तदुक्तं गारुडेऽपि ।
आसनस्थानविधयो न योगस्य प्रसाधकाः । विलम्बजननाः सर्वे विस्तरा: परिकीर्तिताः ॥
शिशुपाल: सिडिमाप स्मरणभ्यासगौरवात्। इति । अथवा वैराग्यध्यानाभ्यासावत्र ध्यानस्य व हेतुतयोती चकारश्च धारणासमुच्चयायेति । तदेवं ज्ञानान्मोक्षो व्याख्यातः
अतः परं बन्धो विपर्ययादित्य तो बन्धकारणं विपर्ययो व्याख्यास्यते तत्रादी विपर्ययस्य स्वरूपमाह।
विपर्ययभेदाः पञ्च ॥३७॥
अविद्यास्मितारागद्देषाभिनिवेशाः पञ्च योगोता बन्धहेतुविषय्ययस्यावान्तरभेदा इत्यर्थः । तेन शुक्त्यादिज्ञानरूपाणां विपर्य याणामसंग्रहेऽपि न क्षतिः। तत्राविद्यानित्याशचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरिति योगे प्रोता। एवमस्मिताप्यात्मानात्मनोरकताप्रत्ययः। शरीरायतिरिक्त यात्मा नास्तीत्येवरूपः। अविद्या तु नैवरूपा। आत्मनः शरीराशरीरोभयरूपत्वेऽपि शरीरेऽहम्बुडापपत्तेः । रागद्देषौ तु प्रसिद्धावेव। अभिनिवेशश्च मरणादित्रास इति । रागादौनां विपर्यय कार्यतया विपर्ययत्वम् ॥ ३७॥ विपर्ययस्य स्वरूपमुक्त्वा तत्कारणस्याशक्तरपि स्वरूपमाह।
अशक्तिरष्टाविंशतिधा तु ॥ ३८॥ सुगमम् । एतदपि कारिकया व्याख्यातम् ।
For Private And Personal Use Only