SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४६ सांख्यदर्शनम्। निरोधश्चर्दिविधारणाभ्याम् ॥ ३३ ॥ प्राणस्येति प्रसिद्ध्या लभ्यते। प्रच्छर्दनविधारणाभ्यां वा प्राणस्यति योगसूत्रे भाष्यकारेण प्राणायामस्य व्याख्यातत्वात् । छर्दिश्च वमनम् । विधारणत्याग इति यावत्। तेन प्ररणरचनयोर्लाभः । विधारणं च कुम्भ कम्। तथा च प्राण स्य पूरकरेचक कुम्भकर्योनिरोधो वशीकरणं साधारण्य त्यधः । प्रासनकर्मणोः स्वशब्देन पश्चालक्षणीयतया सूत्र परिशेषत एव धारणाया लक्ष्यत्वलामाद्वारणापदं नोपात्तम्। चित्तस्य धारणा तु समाधिवड्यानशब्दनैव होता इति ॥ ३३ ॥ क्रमप्राप्तमासनं लक्षयति। स्थिरसुखमासनम् ॥ ३४॥ यत् स्थिरं सत् सुख साधनं भवति स्वस्तिकादि तदासनमित्यर्थः ॥ ३४॥ खकर्म लक्षयति। सकर्म स्वाश्रमविहितकर्मानुष्ठानम् ॥३५॥ 'सुगमम् । तत्र कर्मशब्देन यमनियम योग्रहणं जितेन्द्रिय त्वरूपः प्रत्याहारोऽपि सर्वाश्रमसाधारणतया कर्ममध्ये प्रवेशनौयः। तथा च पातञ्जलसूत्रे ज्ञानप्ताधनतया प्रोक्तान्यष्टौ योगाङ्गान्यत्रापि लब्धानि। यथा तत्सूत्रम्। यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानौति । तेषां च स्वरूपं तव द्रष्टव्यम् ॥ ३५ ॥ मुख्याधिकारियो नास्ति बहिरङ्गास्य यमादिपञ्चकन्यापेन! केवलाद्वारणाध्यानादित्रयरूपात् संयमादेव ज्ञानं योगश भवतीति पातञ्जलांसद्धान्तः । जड़भरतादिष च तथा दृश्यनजप । अतस्तदनुसारेणाचार्योऽप्याह। For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy