________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तीयोऽध्यायः ।
१४५
जान मेव मोक्षसाधनमिति स्थापितम्। इदानों ज्ञानसाधनान्याह।
रागोपहतिया॑नम् ॥ ३० ॥ ज्ञानप्रतिबन्धको यो विषयोपरागश्चित्तस्य तदुपघातहेतुOनमित्यर्थः। उपचारेण कार्य कारणयोरभेदनिर्देशो रागनयस्य ध्यानत्वासम्भवात् । अत्र ध्यानशब्देन धारणाध्यानसमाधयो योगोतास्त्रय एव ग्राह्या: पातञ्जले योगाङ्गानामष्टानामव विवेकसाक्षात्कार हेतुत्व श्रवणादिति। एतेषां चावान्तरविशेषास्तव द्रष्टव्याः। इसराणि च पञ्चाङ्गानि स्वयं वक्ष्यति ॥ ३० ॥
ध्याननिष्यत्त्व व ज्ञानोत्पत्ति रम्भमात्रेणेत्याशयेन ध्याननिष्यत्तेलक्षणमाह।
वृत्तिनिरोधात् तत्मिविः ॥ ३१ ॥ ध्येयातिरिक्त त्तिनिरोधरूपेण सम्प्रज्ञातयोगेन तत्मिदिवा॑नस्य निष्पत्तिर्जानाख्यफलोपधानरूपा भवतीत्यर्थः । अतस्तावत्पर्यन्तमेव ध्यानं कर्तव्यमित्याशयः। इतरवृत्तिनिरोध मत्येव विषयान्तरसञ्चाराख्यप्रतिबन्धापग माद्देश्यसाक्षात्कारी भवतीति कृत्वा योगोऽपि जाने कारणं योगाङ्गध्यानादिवटियपि मन्तव्यम् । अध्यात्मयोगाधिगमन देवं मत्वा धीरो हष. शोको जहातीत्यादिश्रुतिस्मत्योस्तदवगमादिति ॥ ३१ ॥ ध्यानस्यापि साधनान्याह।
धारणासनखकर्मणा तत्सिसिः ॥ ३२ ॥ वक्ष्यमाणेन धारणादित्रयेण ध्यानं भवतीत्यर्थः ॥ ३२ ॥ धारणादित्रयं क्रमात् सूत्रत्रयेण लक्षयति ।
For Private And Personal Use Only