________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
सांख्यदर्शनम्।
कामायिकयोरनुष्ठितयोः कर्मज्ञानयोः पुरुषस्य मुक्तिरपि न युक्तोत्यर्थः। मायिकत्व चासत्यत्वम्। अस्थिरत्वमिति यावत्। तच्च स्वाप्नऽर्थेऽस्ति जाग्रत्यदार्थस्तु स्वानापेक्षया सत्य एव कूटस्थपूरुषापेक्षयैवास्थिरत्वेनासत्यत्वादतः स्वप्नविलक्षणखानादिकार्यकरः । एवं कर्माप्यस्थिरत्वात् प्रकृतिकार्यत्वाच मायिकम् । आत्मा तु स्थिरत्वादकार्यत्वाचामायिकः । अतस्तयोरनुष्ठितकर्मज्ञानयोः समानफलदाढत्वमयौक्ति कमिति विलक्षणमेव कार्य युक्तम् । २६ ॥
नन्वेवमप्यात्मोपासनाख्यज्ञानेन मह तत्त्वज्ञानस्य ममुचयविकल्पो स्यातामुपास्यस्यामायिकत्वादिति तबाह ।
इतरस्यापि नात्यन्तिकम् ॥ २७॥
इतरस्याप्युपास्यस्य नात्यन्तिकममायिकत्वमुपास्यात्मन्यध्यस्तपदार्थानामपि प्रवेशादित्यर्थः ॥ २७ ॥ उपासनस्य मायिकत्वं यस्मिन्न शे तदाह ।
सङ्कल्पितेऽप्य वम् ॥ २८॥ मनःसङ्कल्पिते ध्येयांश एवमपि मायिकत्वमपीत्यर्थः । सर्व खल्विदं ब्रह्मेत्यादिश्रुत्युक्ते घपास्ये प्रपञ्चांशस्य मायिकत्वमेवेति ॥ २८॥
तर्युपासनस्य किं फलमित्याकाङ्क्षायामाह । भावनोपचयाच्छुतस्य सर्वे प्रकृतिवत् ॥२६॥
भावनाख्योपासनानिष्यत्त्या शुद्धस्य निध्यापस्य पुरुषस्य प्रकृतेरिव सर्वमैखयं भवतीत्यर्थः । प्रकृतियथा सृष्टिस्थितिसंहारं करोति। एवमुपासकस्य बुद्धिसत्त्वमपि प्रकृतिप्रेरणेन सध्यादिक भवतीति ॥ २८ ॥
For Private And Personal Use Only