________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हतीयोऽध्यायः ।
लिङ्गसंमृतितो जन्महारा विवेकसाक्षात्कारस्तस्मान्म क्तिरूपः पुरुषार्थो भवतीत्यर्थः। ज्ञानादिकं च प्रत्ययसर्गतया कारिकायां परिभाषितम्। एष प्रत्ययसर्गो विपर्य याशक्तितुष्टिसियाख्यः ।
इति । विपर्य यादयो व्याख्यास्यन्तेऽत्र च स एव बुद्धिसर्ग: प्रयोजनयोगेन सूरुच्यत इति विशेषः ॥ २३ ॥
बन्धी विपर्ययात् ॥ २४॥ विपर्ययात् सुखदुःखात्मको बन्धरूपः पुरुषार्थो लिङ्का संमृतितो भवतीत्यर्थः ॥ २४ ॥
ज्ञानविषय याभ्यां मुक्तिबन्धावुक्तौ तत्रादौ ज्ञानान्मुक्ति विचारयति।
नियतकारणत्वान्न समुच्चयविकल्पौ ॥२५॥
यद्यपि विद्यां चाविद्यां च यस्तद्देदोभयं सहेत्यादि श्रूयते तथाप्यविवेकनिवृत्ती लोकसिद्धतया ज्ञानस्य नियतकारणत्वादविद्याख्यकर्मणा सह ज्ञानस्य मोक्षजनने समुच्चयो विकल्यो वा नास्तीत्यर्थः । तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यते यनाय न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानचरित्यादिश्रुतिभ्योऽपि कर्मणो न साक्षान्मोक्षहेतुत्वं समुबयानुष्ठानं श्रुतिष्वङ्गाङ्गिभावादिभिरभ्युपपद्यत इति ॥२५॥ समुञ्चविकल्पयोरभावे दृष्टान्तमाह।
खपजागराध्यामिव मायिकामायिकाभ्यां नोभयोमुक्तिः पुरुषस्य ॥ २६ ॥
यथा मायिकामायिकाभ्यां खनजागरपदार्थाभ्यामन्योऽन्यसहकारिभावेनै कः पुरुषार्थो न सम्भवति। एवमुभयोर्मायि
For Private And Personal Use Only