________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
सांख्यदर्शनम्।
प्रपञ्चस्य सर्वस्य व मरणसुषुत्यावभावश्च देहस्य स्वभा. विकचैतन्ये सति स्थादित्यर्थः । मरणसुषुत्यादिकं हि देहस्थाचेतनता सा च स्वाभाविकचैतन्ये सति नोपपद्यते स्वाभा. वस्य यावद्रव्यभावित्वादिति ॥ २१ ॥ प्रत्येकादृष्ट रिति यदुक्तं तत्राशय परिहरति ।
मदशक्तिवञ्चेत् प्रत्येकपरिदृष्टे साहये तटुद्भवः ॥ २२॥
ननु यथा मादकता शक्ति: प्रत्ये कद्रव्यात्तिरपि मिलितद्रव्ये वर्तत एवं चैतन्यमपि स्यादिति चेन्न प्रत्ये कपरिदृष्टे सति सांहत्ये तदुद्भवः सम्भवेत्। प्रक्वते तु प्रत्ये कपरिदृष्टत्वं नास्ति । प्रतो दृष्टान्त प्रत्येकं शास्त्रादिभिः सूक्ष्मतया मादकत्व सिडे संहतभावकाले मादकत्वाविर्भावमात्र सिध्यति । दार्शन्तिके तु प्रत्येकभूतेषु सूक्ष्मतया न केनापि प्रमाणेन चैतन्य सिद्धमित्यर्थः। ननु समुचिते चैतन्यदर्शनेन प्रत्ये कभूते सूक्ष्मचैतन्यशक्तिरनुमेयेति चेन्न । बनेकभूतेष्वनेकचैतन्यशक्तिकल्पनायां गौरवेण लाघवादेकस्यैव नित्यचित् खरूपस्य कल्पनौचित्यात्। ननु यथावयवेऽवतमानमपि परिमाणजलाहरणादिकायं घटादौ दृश्यत एवमेव शरीरे चैतन्य स्यादिति मैवम् । भूतगतविशेषगुणानां सजातीय. कारणगुणजन्यतया कारणे चैतन्य विना देहे चैतन्यासम्भवादिति ॥ २२॥
पुरुषार्थ संमृतिर्लिङ्गानामित्युक्त तत्व लिङ्गानां स्थ लदेह. सञ्चाराख्यजन्मनो यो यः पुरुषार्थो येन येन व्यापारण सिध्यति तदाह सूत्राभ्याम् ।
ज्ञानान्मुक्तिः ॥ २३॥
For Private And Personal Use Only