________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम्। त्वेन सूर्यस्येव सङ्घातसङ्गानुमानादित्यर्थः। सूयादौनि सर्वाणि तेजांसि पार्थिवद्रव्यसङ्गेनैवावस्थितानि दृश्यन्ते लिङ्ग च सत्त्वप्रकाशमयमतो भूतसङ्गमिति ॥ १३ ॥ लिङ्गस्य परिमाणमवधारयति।
अणुपरिमाणं तत् कृतिश्रुतेः ॥ १४ ॥ तल्लिङ्गमणुपरिमाणं परिच्छिन्नं न त्वत्यन्तमेवाणु सावयवस्योतत्वात्। कुतः कृतिश्रुतेः क्रियाश्रुतेः ।
विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च । इत्यादिश्रुतर्विज्ञानाख्यबडिप्रधानतया विज्ञानस्य लिङ्गस्थाखिलकर्मश्रवणादित्यर्थः । विभुल्वे सति क्रिया न सम्भवति । तद्गतिश्रुतेरिति पाठस्तु समीचीनः। लिङ्गशरीरस्थ च गतिश्रुतिस्तमुत्क्रामन्तं प्राणोऽनुक्रामति प्राणमनुक्रामन्तं सविज्ञानो भवति सविज्ञानमेवानुक्रामतीति सविज्ञानो बुद्धिसहित एव जायते सविज्ञानं यथा स्यात् तथा संसरति चेत्यर्थः
परिच्छिन्नत्वे युक्त्यन्तरमाह ।
तदन्नमयत्वश्रुतेश्च ॥ १५ ॥ तस्य लिङ्गस्यैकदेशतोऽन्नमयत्व श्रुतेने विभुत्व मम्भवतीति । विभुत्व सति नित्यतापत्तरित्यर्थः। सा च तियन्त्रमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयौ वागित्यादिः। यद्यपि मनयादीनि न भौतिकानि तथाप्य त्रसंसृष्टसजातीयांशपूरणादन्त्रमयत्वादिव्यवहारो बोध्यः ॥ १५ ॥ .. अचेतनानां लिङ्गानां किमर्थं संसृतिदेहाहान्तरसञ्चार इत्याशडायामाह।
For Private And Personal Use Only