________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बतीयोऽध्यायः ।
इतरस्थाविवेकिन एव खोयकर्मफलभोगावश्यम्भावादित्यर्थः ॥ ५ ॥ देहसत्त्वेऽपि संमृतिकाले भोगो नास्तीत्याह ।
सम्प्रति परिमुक्तो हाभ्याम् ॥६॥
सम्प्रति संमृतिकाले पुरुषो दाभ्यां शीतोष्णसुखदुःखादि. इन्दः परिमुलो भवतीत्यर्थः। तदेतत् कारिकयोलम् । संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् । इति। भावा धर्माधर्मवासनादयः ॥ ६ ॥ अतः परं शरीरदयं विशिय वक्नु मुपक्रमते ।
मातापिट स्थूलं प्रायश इतरन्न तथा ॥७॥
स्थूलं मातापिटज प्रायशो बाहुल्येनायोनिजस्यापि स्थलशरीरस्य स्मरणादितरच सूक्ष्म शरीरं न तथा न मातापिबजं सर्गाद्युत्पनत्वादित्यर्थः । तदुक्त कारिकया। पूर्वोत्यनमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् । संसरति निरुपभोगं भावैरधिवासित लिङ्गम् ।
इति। नियतं नित्य हिपराधस्थायि गौणनित्य प्रतिशगैरं लिङ्गोत्पत्तिकल्पने गौरवात्। प्रलये तु तवाशः श्रुतिस्मृतिप्रामाण्यादिश्यते। गतिकाले भोगाभाववचनमुर्गाभिप्रायेण। कदाचित् तु वायवीयशरीरप्रवेशतो गमनकालेऽपि भोगो भवति। पतोऽयममार्गे दु:खभोगवाक्यान्य पपदन्त ॥ ७॥ . स्थूलसूक्ष्म शरीरयोर्मध्ये किमुपाधिकः पुरुषस्य इन्दयोमस्तदवधारयति।
For Private And Personal Use Only