________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम्।
तदेवं पूर्वाध्यायमारभ्य बयोविंशतितत्त्वानामुत्पत्तिमुक्का तस्माच्छरोरहयोतपत्तिमाह।
तस्माच्छरीरस्य ॥२॥ तस्मात् त्रयोविंशतितत्त्वात् स्थूलसूक्ष्म शरीरदयस्यारम्भ इत्यथः ॥२॥
सम्प्रति त्रयोविंशतितत्त्वे संसारान्यथानुपपत्तिं प्रमाणयति।
तहोजात् संहतिः ॥ ३ ॥ तस्य शरीरस्य वीजात् बयोविंशतितत्त्वरूपात् सूक्ष्मातो: पुरुषस्य संमृतिगंतागते भवतः कूटस्थस्य विभुतया खतो गत्याद्यसम्भवादित्यर्थः । त्रयोविंशतितत्वेऽवस्थितो हि पुरुषस्तेनैवोपाधिना पूर्व कृतकर्मभोगाथै देहाट् देहं संसरति ।
मानसं मनसैवायमुपभुङक्ते शुभाशुभम् ।
वाचा वाचा कृतं कर्म कायेनैव तु कायिकम् ॥ इत्यादिस्मृतिभिः पूर्वसर्गीयकरणैरेवोत्सर्गतः सर्गान्तरेषपभोगसिद्धेः । अतएव ब्रह्मसूत्रमुपसंहरति सम्परिष्वक्त इति
संमृतेरवधिमप्याह।
आविवेकाच्च प्रवर्तनमविशेषाणाम् ॥४॥ ईश्वरानीश्वरत्वादिविशेषरहितानां सर्वेषामेव पुंसां विवे. कपर्यन्तमेव प्रवत्तनं संमृतिरावश्यको विवेकोत्तरं च न सत्यर्थः ॥ ४॥ तत्व हेतुमाह
उपभोगादितरस्य ॥५॥
For Private And Personal Use Only