________________
Shri Mahavir Jain Aradhana Kendra
१३६
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम् ।
पूर्वोत्पत्त स्तत्काय्र्यत्वं भोगादेकस्य नेतरस्य
॥८॥
पूर्व सर्गादात्पत्तिर्यस्य लिङ्गशरीरस्य तस्यैव तत्कार्य्य व सुखदुःखका कत्वं कुत एकस्य लिङ्गदेहस्यैव सुखदुःखाख्यभोगात् न त्वितरस्य स्थूलशरीरस्य मृतशरीरे सुखदु:खाद्यभावस्य सर्वसम्मतत्वादित्यर्थः ॥ ८ ॥
उक्तस्य सूक्ष्मशरीरस्य स्वरूपमाह । सप्तदशैकं लिङ्गम् ॥ ६ ॥
सूक्ष्मशरीरमप्याधाराधेयभावेन द्विविधं भवति तत्र सप्तदश मिलित्वा लिङ्गशरीरं तच्च सर्गादौ समष्टिरूपमेकमेव भवतीत्यर्थः । एकादशेन्द्रियाणि पञ्चतन्मात्राणि बुद्धियति सप्तदश । अहङ्कारस्य बुद्धावेवान्तर्भावः । चतुर्थ सूत्रवक्ष्यमाप्रमाणादेतान्य व सप्तदश लिङ्गं मन्तव्यं न तु सप्तदशमेकं चेत्यष्टादशतया व्याख्येयम् । उत्तरसूत्रेण व्यक्तिभेदस्योपपाaorta लिङ्गेकत्व एकशब्दस्य तात्पर्य्यावधारणाञ्च ।
कर्मात्मा पुरुषो योऽसौ बन्धमोचैः प्रयुज्यते । स सप्तदशकेनापि राशिना युज्यते च सः ॥ इति मोक्षधर्मादौ लिङ्गशरीरस्य सप्तदशत्वसिद्धेश्वमतदशावयवा यत्र सन्तीति सप्तदशको राशिरित्यर्थः राशिशब्द ेन स्थलदेहवल्लिङ्ग देहस्यावयवित्वं निराकृतम् । - श्रवयविरूपेण द्रव्यान्तरकल्पनायां गौरवात्। स्थूल देहस्य -चावयवित्वमेकतादिप्रत्यक्षानुरोधेन कल्पात इति । पत्र च लिङ्गदेहे बुद्धिरेव प्रधानेत्याशयेन लिङ्गदेहस्य भोगः प्रागुक्तः । प्राणश्चान्तःकरणस्यैव वृत्तिभेदः । अतो लिङ्गदेहे प्राणपश्चकस्याप्यन्तर्भाव इत्यस्य सप्तदशावयवकस्य शरीरत्वं स्वयं
For Private And Personal Use Only