SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हितीयोऽध्यायः । शब्दो न तौयान्तःकरणवाची। वक्ष्यमाणस्याखिलसंस्काराबारत्वस्य बुद्ध्यतिरिक्तेष्वसम्भवात्। सम्भवे वा बुद्धिकल्पनवैया ादिति ॥ ४०॥ बुद्धेः प्रधानत्वं हेतूनाह त्रिभिः सूत्रैः । अव्यभिचारात् ॥ ४१ ॥ सर्वकरणव्यापकत्वात् फलाव्यभिचाराइत्यर्थः ॥ ४१ ॥ तथाशेषसंस्काराधारत्वात् ॥४२॥ बुद्धे रैवाखिलसंस्काराधारता न तु चतुरादेरहङ्कारमनसोर्वा पूर्वदृष्टश्रुताव्यर्थानामन्धवधिरादिभिः स्मरणानुपपत्तेः । तत्त्वज्ञानेनाहकारमनसोलयेऽपि स्मरणदर्शनाच। अतोऽशेषसंस्काराधारतयापि वुद्धेरेव सर्वेभ्यः प्रधानत्वमित्यर्थः ॥ ४२ ॥ स्मृत्वानुमानाच॥ १३ ॥ म्म त्वा चिन्तनरूपया हत्या प्राधान्यानुमानाचेत्यर्थः । चिन्ता वृत्तिहि ध्यानाख्या सर्ववत्तिभ्यः श्रेष्ठा तदाशयतया च चित्तापरनाम्नी बुद्धिरेव श्रेष्ठान्यत्तिकरणेभ्य इत्यर्थः ॥४३॥ ननु चिन्तात्ति: पुरुषस्दैवास्तु तत्राह । सम्भवन्न स्वतः ॥४४॥ स्वतः पुरुषस्य स्मृतिर्न सम्भवेत् कूटस्थत्वादित्यर्थः । इत्थं वा व्याख्येयम् । नन्वेवं बुद्धिरेव करणमस्तु कतमवान्तरकरणैरित्याशङ्कायामाह। सम्भवेन्न स्वत इति । चक्षुरादिहारता विनाखिलव्यापारेषु बुद्धेः स्वतः करणत्व न सम्भवेदन्धादेरपि रूपादिदर्शनापत्तेरित्यर्थः ॥ ४४ ॥ नन्वेवं बुद्धेरेव प्राधान्य कथं मनस उभयात्मकत्व प्रागुक्त तनाह। For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy