________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
सांख्यदर्शनम् ।
___ आपेक्षिको गुणप्रधानभावः क्रियाविशेषात
॥४५॥
क्रियाविशेषं प्रति करणानामापेक्षिको गुणप्रधानभावश्चक्षुरादिव्यापारेषु मनः प्रधानं मनोव्यापार चाहङ्कारोऽहङ्कारव्यापार च बुद्धिः प्रधानम् ॥ ४५ ॥
नन्वस्य पुरुषस्येयं बुद्धिरेव करणं न बुद्दान्तरमित्य वं व्यवस्था किनिमित्तिकेत्याकाङ्क्षायामाह ।
तत्कर्मार्जितत्वात् तदर्थमभिचेष्टा लोकवत् ॥ ४६॥
तत्पुरुषोयकर्मजत्वात् करणस्य तत्पुरुषार्थमभिचेष्टा सर्वव्यापारो भवति लोकवत् । यथा लोके येन पुरुषेण क्रयादिकर्मणार्जितो यः कुठारादिस्तत्पुरुषार्थमेव तस्य छिदादिव्यापार इत्यर्थः। अत: करणव्यवस्थेति भावः। यद्यपि कूटस्थतया पुरुषे कर्म नास्ति तथापि भोगसाधनतया पुरुषखामिकत्वेन राज्ञो जयादिवदेव पुरुषस्य कर्मोच्यते । ननु कर्मण एव तत्पुरुषोयत्व किं नियामकमिति चेत् तथाविधं कर्मान्तरमेव । अनादित्वात् तु नानवस्था दोषायेति। यत् तु कश्चिदविवेकी वदति बुद्धिप्रतिविम्बितपुरुषस्य कर्मेति । तन। योगभाष्येऽत्मदुक्तप्रकारस्येवोक्तत्वेनान्यप्रकारस्याप्रामाणिकत्वात् । प्रतिविम्बस्यावस्तुत्वन कर्माद्यसम्भवाच्च। अन्यथा प्रतिविम्बस्य कर्मतद्भोगाद्यङ्गीकारे विम्बत्वाभिमतपुरुषकल्पनावैयर्थ्यस्य पूर्व प्रतिपादितत्वादिति ॥ ४६ ॥
बुद्धेः प्राधान्य प्रकटीकर्तुमुपसंहरति ।
For Private And Personal Use Only