________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम् ।
पुरुषार्थ एव हेतुर्न केनचित् काय ते करणम् ॥ इति ॥३७॥ बाद्याभ्यन्तमिलित्वा कियन्ति करणानौत्याकाझायामाह।
करणं त्रयोदशविधमवान्तरभेदात् ॥३८॥ अन्तःकरणत्वयं दश बाह्य करणानि मिलित्वा त्रयोदश तेष्वपि व्यक्तिभेदेनानन्त्यं प्रतिपादयितु विधमिल्युतम् । बुद्धिरेव मुख्य करणमित्याशयेनोक्तमवान्तरभेदादिति। एकस्वैष बुद्धयाख्यकरणस्य करणानामनेकत्वाटित्यर्थः ॥ ३८॥
ननु बुद्धिरेव पुरुषऽर्थसमर्पकत्वानमख्य करणमन्येषां च करणत्वं गौणं तत्र को गुण इत्याकाझायामाह ।
इन्द्रियेषु साधकतमत्वगुणयोगात् कुठारवत् ॥ ३६॥
इन्द्रियेषु पुरुषार्थसाधकतमत्वरूपः करणस्य बुद्धेर्गुण: परम्परयास्त्यतस्त्रयोदशविध करणमुपपद्यत इति पूर्वसूत्रेणान्वयः। कुठारवदिति । यथा फलायोगव्यवच्छिन्द्रतया प्रहारस्यैव छिदायां मुख्यकरणत्वेऽपि प्रकष्टसाधनत्वगुणयोगात् कुठारस्यापि करणत्व तथेत्यर्थः । अन्तःकरणस्यैकत्वमभिप्रेत्याहङ्कारस्य गौणकरण त्वमत्र नोक्तम् ॥ ३८ ॥ गौणमुख्यभावे व्यवस्थां विशिष्थाह ।। हयोः प्रधानं मनो लोकवद्भुत्यवर्गेषु ॥४०॥
हयोर्बाह्यान्तरयोर्मध्ये मनो बुद्धिरेव प्रधान मुख्यम् । साक्षात्करण मिति यावत् । पुरुषेऽर्थसमर्पकत्वात्। यथा भृत्यवर्गेषु मध्ये कश्चिदेव लोको राश: प्रधानो भवत्यन्ये च तदुपसर्जनीभूता ग्रामाध्यक्षादयस्तद्ददित्यर्थः । अत्र मन:
For Private And Personal Use Only