SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयोऽध्यायः । स्यार्पणे दर्पणता केवलात्मस्वरूपिणी ॥ यहं त्वं जगदित्यादौ प्रशान्ते दृश्यसम्भ्रमे । स्यात् तादृशी केवलता स्थिते दृष्टर्यवौक्षणे ॥ इति ॥ ३४ ॥ एतदेव दृष्टान्तेन विवृणोति 1 १२८ कुसुमवच्च मणिः ॥ ३५ ॥ चकारो हेतौ कुसुमेनेव मणिरित्यर्थः । यथा जपाकुसुमेन स्फटिकमणी रक्तोऽस्वस्थो भवति तनिवृत्तौ च रागशून्यः स्वस्थो भवति तद्वदिति । तदेतदुक्तं कौमें । यथा संलक्ष्यते रक्तः केवलः स्फटिको जनैः । रष्ञ्जकाद्युपधानेन तद्दत् परमपूरुषः ॥ इति ॥ ३५ ॥ - ननु कस्य प्रयत्नेन करणजातं प्रवर्त्ततां पुरुषस्य कूटस्थ त्वादोश्वरस्य च प्रतिषिद्धत्वादिति तत्राह । पुरुषार्थं करणोवोऽप्यदृष्टोल्लासात् ॥ ३६ ॥ प्रधानप्रवृत्तिवत् पुरुषार्थं करणोद्भवः करणानां प्रवृत्तिरपि पुरुषस्यादृष्टाभिव्यक्तेरेव भवतीत्यर्थः । श्रदृष्टं चोपाधेदेव ॥ ३६ ॥ परार्थं स्वतः प्रवृत्तौ दृष्टान्तमाह । धेनुवद्दत्साय ॥ ३७ ॥ यथा वत्सार्थं धेनुः स्वयमेव चौरं स्रवति नान्यं यत्नमपेचते तथैव खामिनः पुरुषस्य कृते स्वयमेव करणानि प्रवर्त्तन्त इत्यर्थः । दृश्यते च सुषुप्तात् स्वयमेव बुद्धेरुत्थानमिति । एतदेव कारिकयाप्युक्तम् । स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम् । For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy