________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
सांख्यदर्शनम् । संयपरत्वमेव सूत्रस्योचितं मनोऽणुत्वप्रतिषेधाय न तु काकदन्तान्वेषणपरत्वमिति ॥ ३२ ॥
पिण्डीकत्य बद्धित्तीः संसारनिदानताप्रतिपादनार्थमादौ दर्शयति।
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥ ३३ ॥ लिष्टा अलिष्टा वा भवन्तु वृत्तयः पञ्चतय्यः पञ्चप्रकारा एब नाधिका इत्यर्थः । क्लिष्टा दुःख दाः सांसारिकवृत्तयोऽक्लिशाश्च तहिपरीता योगकालोनवृत्तयः। वृत्तीनां पञ्चप्रकारत्व पातञ्जलसूत्रेणोक्तम्। प्रमाणविपर्य यविकल्पनिद्रास्मृतय इति । तत्र प्रमाण वृत्तिरत्राप्युता विषय्य यस्त्वस्माकं विवेकाग्रह एवान्यथाख्यातनिरास्यत्वात् । विकल्पस्तु विशेषदर्शनकालेऽपि राहोः शिरः पुरुषस्य चैतन्यमित्यादिज्ञानम्। निद्रा च सुषुप्तिकालीना बुद्धिहात्तः। स्मृतिश्च संस्कारजन्यं ज्ञानमिति। एतत् सर्व पातञ्जले मूत्रितम् ॥ ३३ ॥
या एता बुद्धिवृत्तय उक्ता एतदीपाधिक्येव पुरुष स्यान्वरूपता न स्वत एतन्निरत्तो च पुरुषः स्वरूपेऽवस्थितो भवतोत्यनयापि दिशा पुरुषस्य स्वरूपं परिचाययति।
तन्नित्तावुपशान्तोपरागः खस्यः ॥ ३४॥ तासां वृत्तीनां विरामदशायां शान्ततत्प्रतिविम्ब कः स्वस्थो भवति कैवल्य इवान्यदापीत्यर्थः। तथा च योगसूत्रत्रयम् । योगश्चित्तवृत्तिनिरोधः। तथा द्रष्ट : स्वरूपेऽवस्थानम् । वृत्तिसारूप्यमितरत्रे ति। इदमेव च पुरुषस्य स्वस्थ त्वं यदुपाधिवृत्तेः प्रतिविम्ब स्य नित्तिरिति । एतादृशी चावस्था पुरुष स्य वासिष्ठ दृष्टान्तेन प्रदर्शिता । यथा। __ अनाप्ताखिलशैलादिप्रतिविम्बे हि यादृशी।
For Private And Personal Use Only