________________
Shri Mahavir Jain Aradhana Kendra
१२४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम् ।
ज्ञानकर्मेन्द्रियात्मक मन इत्यर्थः ॥ २६ ॥
उभयात्मकमित्यस्यार्थं स्वयं विवृणोति ।
'माह।
गुणपरिणामभेदान्नानात्वमवस्थावत् ॥२७॥
यथैक एव नरः सङ्गवशान्नानात्वं भजते कामिनीसङ्गात् कामुको विरक्तसङ्गाहिरक्तोऽन्यसङ्गाच्चान्य एवं मनोऽपि चत्तुरादिसङ्गाच्चक्षुराद्येकोभावेन दर्शनादिवृत्तिविशिष्टतया नाना भवति । तत्र हेतुर्गुणेत्यादि । गुणानां सत्त्वादीनां परिणा मभेदेषु सामर्थ्यादित्यर्थः । एतच्चान्यत्रमना अभूवं नाश्रौषमित्यादिश्रुतिसिद्धाच्चतुरादौनां मनः संयोगं विना व्यापाराचमत्वादनुमीयते ॥ २७ ॥ ज्ञानकर्मेन्द्रिययोर्विषयमाह ।
रूपादिरसमलान्त उभयोः ॥ २८ ॥
अन्नरसानां मलः पुरीषादिः । तथा रूपरसगन्धस्पशशब्दा वक्तव्यादातव्य गन्तव्यानन्दयितव्योत्स्रष्टव्याश्वोभयोनकर्मेन्द्रिययोर्दश विषया इत्यर्थः । श्रानन्दयितव्यं चोपस्थस्योपस्थान्तरं विषय इति ॥ २८ ॥
यस्येन्द्रियस्य येनोपकारेणेतानीन्द्रियाणीत्युच्यते तदुभय
द्रष्टृत्वादिरात्मनः करणत्वमिन्द्रियाणाम् ॥२६॥
द्रष्टृत्वादिपञ्चकं वक्तृत्वादिपञ्चकं सङ्कल्पयितृत्व' चात्मन: पुरुषस्य दर्शनादिवृत्तौ करणत्वं विन्द्रियाणामित्यर्थः । ननु द्रष्टृत्वोत्वादिकं कदाचिदनुभवे पर्यवसानात् पुरुषस्याविकारिणोऽपि घटतां वक्तृत्वादिकं क्रियायात्रं तत् कथं कूटस्थस्य घटतामिति चेन्न । श्रयस्कान्तवत् सान्निध्यमात्रेण दर्श नादिवृत्तिकत्वस्यैवात्र द्रष्टृत्वादिशब्दार्थत्वात् । यथा हि
For Private And Personal Use Only