________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयोऽध्यायः ।
तदुत्पत्तिश्रुतेर्विनाशदर्शनाच्च ॥ २२ ॥
तेषां सर्वेषामेवेन्द्रियाणामुत्पत्तिरस्ति ।
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
१२३
इत्यादिश्रुतेः । वृद्दाद्यवस्थासु चतुरादीनामिव मनसोऽप्यपचयादिना विनाशनिर्णयाश्चेत्यर्थः । तथा चोक्तम् । दशकेन निवर्त्तन्ते मनः सर्वेन्द्रियाणि च ।
इति । मनसो नित्यत्ववचनानि च प्रक्कव्याख्यवीजपरागौति ॥ २२ ॥
गोलक जातमेवेन्द्रियमिति नास्तिक मतमपाकरोति । तौन्द्रियमिन्द्रियं भ्रान्तानामधिष्ठाने
॥२३॥ इन्द्रियं सर्वमतौन्द्रियं न तु प्रत्यक्षं भ्रान्तानामेव त्वधिष्ठाने गोलके तादात्मेग्नेन्द्रियमित्यर्थः । अधिष्ठानमित्येव
पाठः ॥ २३ ॥
एकमेवेन्द्रियं शक्तिभेदाद्विलक्षण कार्यकारीति मतमपा करोति ।
शक्तिभेदेऽपि भेदसिङ्घौ नकत्वम् ॥ २४ ॥
एकस्यै वेन्द्रियस्य शक्तिभेदस्खौकारेऽपौन्द्रियभेदः सिध्यति शक्तीनामपौन्द्रियत्वात् । यतो नैकत्वमिन्द्रियस्येत्यर्थः ॥ २४ ॥ नन्व कस्मादहङ्कारान्नानाविधेन्द्रियोत्पत्तिकल्पनायां न्यायविरोधस्तत्राह ।
न कल्पनाविरोधः प्रमाणदृष्टस्य ॥ २५ ॥
सुगमम् ॥ २५ ॥
एकस्यैव मुख्येन्द्रियस्य मनसोऽन्ये दश शक्तिभेदा इत्याह । उभयात्मकं मनः ॥ २६ ॥
For Private And Personal Use Only