________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
सांख्यदर्शनम्।
याणि च चतुःश्रोत्रत्वग्रसनघ्राणाख्यानि पञ्च । एतैर्दशभिः सहान्तरं मन एकादश कमेकादशेन्द्रियमित्यर्थः । इन्द्रस्य सङ्घातेश्वरस्य करणमिन्द्रियम्। तथा चाहङ्कारकाय त्वे सति करणत्वमिन्द्रियत्वमिति ॥ १८ ॥ इन्द्रियाणां भौतिकत्वमतं निराकरोति ।
आहङ्कारिकत्वश्रुतेनं भौतिकानि ॥ २० ॥ इन्ट्रियाणौति शेषः । आहङ्कारिकत्वे च प्रमाणभूता श्रुति: काललुप्ताप्याचार्यवाक्यान्मन्वाद्यखिलम्मतिभ्यश्चानुमोयते । प्रत्यक्षा श्रुतिरहं बहु स्यामित्यादिः। नन्चन्नमयं हि सौम्य मन इत्यादिौतिकवेऽपि श्रुतिरस्तीति चेन्न । प्रकाशकत्व. साम्येनान्तःकरणोपादानत्वस्यवोचिततयाहङ्कारिकत्वश्रुतरेव मुख्यत्वात्। भूतानामपि हिरण्यगर्भसङ्कल्पजन्यतयान स्य मनोजन्यत्वाच्च । व्यष्टिमन आदीनां भूतसंसृष्टतयैव तिष्ठतां भूतेभ्योऽभिव्यक्तिमात्रेण तु भौतिकश्रुतिगौणौति ॥ २० ॥
ननु तथाप्याहङ्कारिकत्वनिर्णयो न घटतेऽस्य पुरुषस्याग्नि वागप्यति वातं प्राणश्चक्षुरादित्यमित्यादिश्रुतौ देवताखिन्द्रिचाणां लयकथनेन देवतोपादानकत्वस्याप्यवगमात् कारण एव हि कार्यात्य लय इत्याशङ्याह ।
देवतालयश्रुति रम्भकस्य ॥ २१ ॥ देवतासु या लयश्रुतिः सा नारम्भ कस्य नारम्भकविषयिणीत्यर्थः। अनारम्भकेऽपि भूतले जलविन्दोलयदर्शनात्। अना रम्भकेष्वपि भूतेष्वात्मनो लय श्रवणाच। विज्ञानघन एवैतेभ्यो भूतभ्यः समुत्थाय तान्येवानु विनश्यतीत्यादिश्रुताविति आवः ॥ २१॥
इन्द्रियान्तर्गतं मनो नित्यमिति केचित् तत् परिहरखि।
For Private And Personal Use Only