________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयोऽध्यायः ।
१२१
चैकारिकाश्च ये देवा अर्थाभिव्यञ्जनं यतः । तेजसादिन्द्रियाण्येव ज्ञानकर्ममयानि च ॥ तामसो भूतसूक्ष्मादिर्यतः ख लिङ्गमात्मनः । इत्यादिस्मृतिभ्य एव निर्णयात्। अत एव पुराणाद्यनुसारेण कारिकायामप्येतदुक्तम्।।
सात्त्विक एकादशकः प्रवर्त्तते बैलता दहङ्कारात् । भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ॥
इति । तैजसो राजसः। उभयं ज्ञानकर्मेन्द्रिये। ननु देवतालमश्रुतिरित्यागामिसूत्र करणानां देवान् वक्ष्यति तत् कथं कारिकयापि देवानां सात्त्विकाहङ्कारकार्यत्व नोक्तमिति। उच्यते । समष्टिचक्षुरादिशरौरिण: सूर्यादिचेतना एव चक्षुरादिदेवताः श्रूयन्ते। अतश्च व्यष्टिकरणामां समष्टिकरणानि देवतेत्य व पयं वस्यति। तथा च व्यष्टिसमध्योरेकताशयेनात्र शास्त्रे देवा: करणेभ्यो न पृथङ्गिर्दिश्यन्ते । अत: समष्टीन्द्रियाणि मनोऽपेक्षयाल्यसत्त्वत्वेन राजसाहकारकाव्य. त्वेनैव निर्दिष्टानि । स्मृतिषु च व्यष्टौन्द्रियापेक्षयाधिकसत्त्वत्वन सास्विकाहङ्कारकार्यातयोक्तानीत्य विरोध इति गन्तव्यम् । तदेवमहङ्कारस्य वैविध्यामहतोऽपि तत्कारणस्य तैविध्य मन्तव्यम् ।
सात्त्विको राजसश्चैव तामसश्च विधा महान् ।
इति स्मरणात्। वैविध्यं चानयोयक्तिभेदादंशभेदाई त्यन्यदेतत् ॥१८॥
एकादशेन्द्रियाणि दर्शयति। कर्मेन्द्रियबुड्वौन्द्रियैरान्तरमेकादशकम् ॥१६॥ कर्मेन्द्रियाणि वाक्पाणिपादपाययस्थानि पञ्च माने द.
११
For Private And Personal Use Only