________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२०
सांख्यदर्शनम् |
यत इति प्रागेवोक्तम् । बन्तःकरणमेकमेव वोजाङ्कुरमहावृक्षादिवदवस्थात्रयमात्रभेदात् कार्य्यकारणभावमापद्यत इति च प्रागेवोक्तम् । अत एव वायुमास्ययोर्मनो महान् मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वर इति मनोबुझोरेकपय्यायत्वमुक्तमिति
॥ १६ ॥
क्रमागतमहङ्कारस्य कार्यमाह । एकादशपञ्चतन्मात्रं यत्काय्यम् ॥ १७ ॥ एकादशेन्द्रियाणि शब्दादिपञ्चतन्मात्रं चाहङ्कारस्य कार्यमित्यर्थः । मयानेनेन्द्रियेणेदं रूपादिकं भोक्तव्यमिदमेव सुखसाधनमित्याद्यभिमानादेवादिसर्गेष्विन्द्रिय तद्विषयोत्पत्त्याहङ्कार इन्द्रियादिहेतुः ॥ लोके भोगाभिमानिनैव रागद्वारा भोगोपकरणकरणदर्शनात् । रूपरागादभूच्चतुरित्यादिना मोचधर्मे हिरण्यगर्भस्य रागादेव समष्टिचक्षुराद्योत्पत्तिस्मरणाचेति भावः । यतश्च भूतेन्द्रिययोर्मध्ये रागधर्मकं मन एवादावह - ङ्कारादुत्पद्यत इति विशेषस्तन्मात्रादीनां राग कार्य्यत्वादिति
॥ १७ ॥
तत्रापि विशेषमाह ।
सात्त्विकमेकादशकं प्रवर्त्तते वैकृतादह
ङ्कारात् ॥ १८ ॥
1
एकादशानां पूरणमेकादशकं मनः षोड़शात्मनणमध्ये सात्त्विकम् । यतस्तद्वैकृतात् सात्त्विकाहङ्काराज्जायत इत्यर्थः श्रतश्च राजसाहङ्काराद्दशेन्द्रियाणि तामसाहङ्काराच्च तन्मात्राखौत्यपि गन्तव्यम् ।
वैकारिकास्तैजसश्च ताम्रसखेत्यहं विधा । अहन्तत्त्वाद्विकुर्वाणान्मनो वैकारिकादभूत् ॥
For Private And Personal Use Only