________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयोऽध्यायः ।
१२५
महाराजः स्वयमव्याप्रियमाणोऽपि सैन्येन करणेन योद्धा भवत्याज्ञामात्रेण प्रेरकत्वात् तथा कूटस्थोऽपि पुरुषश्चक्षुराद्यखिलकरणैर्द्रष्टा वक्ता सङ्कल्पयिता चेत्येवमादिर्भवति संयोगाख्यसान्निध्यमात्र खैव तेषां प्र रकत्वादयस्कान्तमणिवदिति । कर्त्तृत्व ं चात्र कारकचक्रप्रयोक्तृत्वं करणत्वं क्रिया हेतुव्यापारवत्त्वं तत्साधकतमत्वं वा कुठारादिवत् । यत् तु शास्त्रेषु पुरुषे दर्शनादिकर्तृत्वं निषिध्यते तदनुकूलकृतिमत्त्वं तत्तत्क्रियावत्त्वं वा । तथा चोक्तम् ।
अत आत्मनि कर्त्तृत्वमकर्तृत्व ं च संस्थितम् । निरिच्छत्वादकर्त्तासौ कर्त्ता सन्निधिमानतः ॥
इति । अत एव कारकचक्रप्रयोक्तृताशक्तेरात्मस्वरूपतया द्रष्टुत्ववक्तृत्वादिकमात्मनो नित्यमिति श्रूयते । न द्रष्ट र्हष्टेविपरिलोपो विद्यते न वक्तुर्वक्त विपरिलोपो विद्यत इत्यादिनेति । ननु प्रमागविभागे प्रत्यक्षादिवृत्तीनामेव करणत्वमुक्तमत्र कथमिन्द्रियस्योच्यत इति चेन्न । अत्र दर्शनादिरू पासु चक्षुरादिद्दारकबुद्धिवृत्तिष्वं वेन्द्रियाणां करणत्ववचनात् । aa पुरुषनिष्ठ बोधांख्यफले हत्तीनां करणत्वस्योक्तत्वादिति
॥ २८ ॥
इदानीमन्तः करणत्वयस्यासाधारणवृत्तीराह ।
त्रयाणां खालक्षण्यम् ॥ ३० ॥
त्रयाणां महदहङ्कारमनसां वालक्षण्यं स्वं स्वं लक्षणमसाधारण वृत्तिर्येषामिति मध्यमपदलोपौ विग्रहस्तस्य भावस्तत्त्वमित्यर्थः । लोके च महतो लक्षणमध्यवसायादिप्रकृष्टगुणवत्त्वम् । अहङ्कृतस्य चात्मन्यविद्यमान गुणारोपः । मनसश्च ेदमस्त्वित्यङ्गीकरणमिति । तथा च बुद्धेर्वृत्तिरध्यवसायो :
For Private And Personal Use Only