________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हितीयोऽध्यायः।
महदादिक्रमेण पञ्चभूतानाम् ॥ १० ॥
सृष्टिरिति पूर्वसूवादनुवर्तते। यद्यप्येतस्मादात्मन आकाशः सम्भत इत्यादिश्रुतावादावेव पञ्चभूतानां सृष्टिः श्रूयते तथापि महदादिक्रमेणैव पञ्चभूतानां सृष्टिरिष्टे त्यर्थः । तेज आदिसृष्टिश्रुती गगनवायुसृष्ट रापूरणवदुक्तात्रुतावप्यादी महदादिसृष्टिः पूरणीयेति भावः। अत्र च प्रमाणं घटसृष्टिवदन्तःकरणातिरिक्ताखिलसृष्ट रन्तःकरणकृत्ति-पूर्वकत्वानुमानम् । किञ्च । एतस्माज्जायते प्राणो मन: सर्वेन्द्रियाणि च । खं वायुयोतिरापश्च पृथिवी विश्वस्य धारिणी । इति श्रुत्यन्तरस्थपाठक्रमानुरोधेन स प्राणमसृजत् प्राणा. छहां खं वायुमित्यादिश्रुत्यन्तरेण च पञ्चभूतसष्टेः प्रामह. दादिसृष्टिरवधार्य्यत इति । प्राणश्चान्तःकरणस्य वृत्तिमद इति वक्ष्यति। अतोऽस्यां श्रुतौ प्राण एव महत्तत्त्वमिति । तथा वेदान्तसूत्रमपि महदादिक्रमेणैव सृष्टिं यक्ति । अन्तरा विज्ञानमनसी क्रमेण तलिङ्गादिति। सदाकाशयोमध्ये बुहिमनसो उत्पादो इति क्रमेणेत्यर्थः। मनसि चाइवारस्य प्रवेश इति ॥१०॥
प्रकृतेरेव स्रष्टुत्वं खमोक्षार्थ तस्या नित्यत्वात् । महदा. दीनां तु वस्खविकारस्रष्टुत्वं न खमोक्षार्थमनित्यत्वादिति । विशेषमाह।
आत्मार्थत्वात् सृष्टे षामात्मार्थ आरम्भः ॥११॥ एषां महदादौनां स्रष्टुत्वस्यात्मार्थत्वात् पुरुषमोक्षार्थत्वान खार्थ प्रारम्भः स्रष्टत्वं विनाशित्वेन मोचायोगादित्यर्थः । पर
For Private And Personal Use Only